Book Title: Vadnyaya
Author(s): Shantrakshit Acharya
Publisher: Mahabodhi Sabha

View full book text
Previous | Next

Page 18
________________ वादन्यायः १ - निग्रहस्थानलक्षणम् (१-७३) । २ - न्यायमतखंडनम् (७४- १४२) । १. निग्रहस्थानलक्षणम् नमः समन्तभद्राय ॥ न्यायवादिनमपि वादेषु शंका [ ? असद्वय]वस्थोपन्यासैः शठा निगृदन्ति तन्निषेधार्थमिदमारभ्यते ॥ नमो विघ्नप्रमथनाय ॥ नानासद्गुणरत्नराशिकिरणध्वस्तान्धकारस्सदा (, ) यो नानाविधसत्त्ववांछितफलप्राप्त्यर्थमत्त्युद्यतः । तन्निः शेषजगद्धितोदयपरन्नत्वार्यमञ्जुश्रियं । वादन्यायविभाग एष विमलः सङक्षिप्त आरभ्यते ॥ (१) यत्प्रयोजनरहितं तत्प्रेक्षापूर्व्वकारिभिन्नारभ्यते । यथा बलित्वग्दर्शनविनिश्चयादिकं । अप्रयोजनञ्चेदं प्रकरण' मित्याशंकावतस्तदाशंकापरिजिहीर्षया प्रयोजनप्रदर्शनाय न्यायवादिन (1b1) मित्यादिवाक्यमुपन्यस्तवान् । कथम्पुनरनेन वाक्येनास्य प्रयोजनमुपदर्श्यत इत्यास्तां तावदेतद् । अर्थस्तु व्याख्यायते || न्यायस्त्रिरूपलिङ्गलक्षणा युक्तिः । नीयते प्राप्यते विवक्षितार्थसिद्धिरनेनेति कृत्त्वा अत एव त्रिविधं लिङ्गमि ( 1b2 ) त्यादिना त्रिरूपमेव लिङगमनन्तरम्वक्ष्यति । तदभिधायि वचनमित्यपरे । तम्बदितुं शीलं यस्य स तथोक्तः । तमपि निगृह्णन्ति पराजयन्त इत्यर्थः । निगृह्णन्तु नामान्याय'वादिनम्पराजयाधिकरणत्त्वादेव । न्यायवादिनन्त्वनिग्रहार्हमपि यनिगृह्णन्त्येतन्न सम्भाव्यते । परोत्कर्षव्यारोपधियस्तु तमपि पराजयन्त इति सम्भावना :यामपि शब्दः समुच्चयार्थोऽतिशयद्योतनार्थो वा केषु (1) निगृह्णन्तीत्याह । वादेषु ( 1b1 ) साधनदूषणसंशब्दितेषु विचारेष्विति यावत् । विवादेष्विति क्वचित्पाठः । " तत्र विरुद्धा वादा विवादास्तेष्विति व्याख्येयं 1 विरुद्वाश्च कथं (1) साघनदूषणसंशब्दितानाम्विचाराणान्तद्विरुद्धार्थसाधनप्रवृत्तत्त्वात् ॥ कथम्पुनर्न्यायवादिनमसत्स्वसि' द्वघादिषु हेतुदोषेषु निगृह्णन्ती त्याह ॥ असद्व्ययवस्थोपन्यास: । ( 1b1 ) असतामसाधूनाम्व्यवस्थाः । असत्यो Ib Ib

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 194