Book Title: Upshamanakaran Part 01 Author(s): Hemchandrasuri Publisher: Jinshasan Aradhana Trust View full book textPage 9
________________ ॥ सूरिप्रेमाष्टकम् ॥ रचयिता - पंन्यासः कल्याणबोधिविजयगणिः (वसन्ततिलका) श्रीदानसूरिवरशिष्यमतल्लिका स, गीतार्थसार्थसुपतिप्रणताङ्घ्रिपद्मः । सिद्धान्तवारिवरवारिनिधिः महर्षिः, श्रीप्रेमसूरिरवताद्भवरागनागात् ॥१॥ चारित्रचञ्दनसुगन्धिशरीरशाली, स्वाध्यायसंयमतपोऽप्रतिमैकमूर्तिः ।। मौनप्रकर्षपरिदिष्टमहाविदेहः, श्रीप्रेमसूरिरवताद्भवरागनागात् ॥२॥ कर्माख्यशास्त्रनिपुणो ह्यनुहीरसूरि, विश्वाद्भुतप्रवरसंयतगच्छकर्ता । जैनेन्द्रशासनमहत्कुशलौघकल्पः, श्रीप्रेमसूरिरवताद्भवरागनागात् ॥३॥ दर्शस्य रात्रिसदृशे कलिकालमध्ये, प्रेमामृतेन विलसत्परिपूर्णचन्द्रः ।। लोकोत्तरास्वनितदर्शितसार्वकक्षः, श्रीप्रेमसूरिरवताद्भवरागनागात् ॥४॥ वैराग्यनीरजलधि-निकटस्थसिद्धिः, संसारतारणतरी शमसौख्यशाली । स्वर्गापवर्गफलदः कलकल्पवृक्षः, श्रीप्रेमसूरिरवताद्भवरागनागात् ॥५॥ | ऐदंयुगीनसमयेऽपि महाचरित्रः, कन्दर्पदर्पहरणः परिपूर्णशीलः । मन्ये करालकलिकालजवीतरागः, श्रीप्रेमसूरिरवताद्भवरांगनागात् ॥६॥ अत्यन्तनिःस्पृहमनःकृतदभ्ररागः, सन्तोषकेसरिविदीर्णविलोभनागः । कल्याणबोधिमचलं प्रतिजन्म दद्यात्, श्रीप्रेमसूरिरवताद्भवरागनागात् ॥७॥ क्वाऽहं भवद्गुणसमुद्रतलं यियासुः, नाऽहं भवत्स्तुतिकृतेऽस्मि समर्थबुद्धिः। नाऽहं भवत्पुनितपादरजोऽप्यरे ! ऽस्मि, कल्याणबोधिफलदातृतरो ! नतोऽस्मि ॥८॥Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 372