________________
॥ सूरिप्रेमाष्टकम् ॥ रचयिता - पंन्यासः कल्याणबोधिविजयगणिः
(वसन्ततिलका) श्रीदानसूरिवरशिष्यमतल्लिका स, गीतार्थसार्थसुपतिप्रणताङ्घ्रिपद्मः । सिद्धान्तवारिवरवारिनिधिः महर्षिः, श्रीप्रेमसूरिरवताद्भवरागनागात् ॥१॥ चारित्रचञ्दनसुगन्धिशरीरशाली, स्वाध्यायसंयमतपोऽप्रतिमैकमूर्तिः ।। मौनप्रकर्षपरिदिष्टमहाविदेहः, श्रीप्रेमसूरिरवताद्भवरागनागात् ॥२॥ कर्माख्यशास्त्रनिपुणो ह्यनुहीरसूरि, विश्वाद्भुतप्रवरसंयतगच्छकर्ता । जैनेन्द्रशासनमहत्कुशलौघकल्पः, श्रीप्रेमसूरिरवताद्भवरागनागात् ॥३॥ दर्शस्य रात्रिसदृशे कलिकालमध्ये, प्रेमामृतेन विलसत्परिपूर्णचन्द्रः ।। लोकोत्तरास्वनितदर्शितसार्वकक्षः, श्रीप्रेमसूरिरवताद्भवरागनागात् ॥४॥ वैराग्यनीरजलधि-निकटस्थसिद्धिः, संसारतारणतरी शमसौख्यशाली । स्वर्गापवर्गफलदः कलकल्पवृक्षः, श्रीप्रेमसूरिरवताद्भवरागनागात् ॥५॥ | ऐदंयुगीनसमयेऽपि महाचरित्रः, कन्दर्पदर्पहरणः परिपूर्णशीलः । मन्ये करालकलिकालजवीतरागः, श्रीप्रेमसूरिरवताद्भवरांगनागात् ॥६॥ अत्यन्तनिःस्पृहमनःकृतदभ्ररागः, सन्तोषकेसरिविदीर्णविलोभनागः । कल्याणबोधिमचलं प्रतिजन्म दद्यात्, श्रीप्रेमसूरिरवताद्भवरागनागात् ॥७॥ क्वाऽहं भवद्गुणसमुद्रतलं यियासुः, नाऽहं भवत्स्तुतिकृतेऽस्मि समर्थबुद्धिः। नाऽहं भवत्पुनितपादरजोऽप्यरे ! ऽस्मि, कल्याणबोधिफलदातृतरो ! नतोऽस्मि ॥८॥