________________
MER
RAL
॥ सूरिभुवनभान्वष्टकम् ॥ रचयिता - पंन्यासः श्रीकल्याणबोधिविजयगणिः
(वसन्ततिलका) सज्ज्ञानदीप्तिजननैकसहस्रभानो ! सद्दर्शनोच्छ्यविधौ परमाद्रिसानो ! दुष्कर्मभस्मकरणैकमनःकृशानो ! भावाद् भजे भुवनभानुगुरो ! भवन्तम् ॥१॥ यो वर्द्धमानतपसामतिवर्द्धमान - भावेन भावरिपुभिः प्रतियुध्यमानः । क्रुच्छद्मलोभरहितो गलिताभिमानो, भावाद् भजे भुवनभानुगुरो ! भवन्तम् ॥२॥ तेजः परं परमतेज इतो समस्ति, दुर्दृष्टिभित्तदमिचंदनि चामिदृष्टिः । भूताऽपि शैलमनसां नयनेऽश्रुवृष्टिः,भावाद् भजे भुवनभानुगुरो ! भवन्तम् ॥३॥ तुभ्यं नमो भविकपङ्कजबोधभानो ! तुभ्यं नमो दुरितपङ्कविशोषभानो ! तुभ्यं नमो निबिडमोहतमोहभानो ! भावाद् भजे भुवनभानुगुरो ! भवन्तम् ॥४॥ शीलैर्महानसि गुरो ! गुरुताप्रकर्ष ! पापेष्वपि प्रकृतदृष्टिपियूषवर्ष ! वृत्त्यैकपूतपरिशुद्धवचोविमर्श ! भावाद् भजे भुवनभानुगुरो ! भवन्तम् ॥५॥ कल्लोलकृद्वरकृपा भवतो विभाति, देदीप्यते लसदनर्घ्यगुणाकरोऽन्तः । गम्भीरताऽतिजलधे ! नयनिम्नगाधे ! भावाद् भजे भुवनभानुगुरो ! भवन्तम् ॥६॥ सीमानमत्र न गता न हि सा कलाऽस्ति, प्रक्रान्तदिक्सुगुणसौरभभाग्गुरोऽसि । दृष्टाश्च दोषरिपवो दशमीदशायां, भावाद् भजे भुवनभानुगुरो ! भवन्तम् ॥७॥ त्वद्पादपद्मभ्रमरेण देव ! श्रीहेमचन्द्रोक्तिकृता सदैव । भानो ! नुतोऽसीत्यतिभक्तिभावात्, त्वत्संस्मृतिसाश्रुससम्भ्रमेण ॥८॥(इन्द्रवज्रा)