Book Title: Upmitibhava Prapancha Katha Purvarddha
Author(s): Siddharshi Gani, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 375
________________ उपमितौ च. ४-अ. ॥३७१॥ युग्मम् । आशङ्कायाः पदं लोके, जायन्ते निर्निमित्तकम् । जनयन्ति परे वैरं, लभन्ते वक्रविभ्रमम् ॥ ३८४ ॥ मक्षिकामशकादीनामपघातं च देहिनाम् । आचरन्ति विना कार्य, परेषां च पराभवम् ॥ ३८५॥ तदिदं भद्र! निःशेषमिह लोके विज़म्भते । हासोऽयं परलोकेऽस्मात्कर्मबन्धः सुदारुणः ॥ ३८६ ॥ अस्त्यस्य तुच्छता नाम, सद्भार्या हितकारिणी । देहस्थाऽस्यैव पश्यन्ति, तां भो गम्भीरचेतसः ॥ ३८७ ॥ एनमुल्लासयत्येव, निमित्तेन विना सदा । हासं सा तुच्छता वत्स!, लघुलोके यथेच्छया ॥ ३८८ ॥ यतो गम्भीरचित्तानां, निमित्ते सुमहत्यपि । मुखे विकासमात्रं स्यान्न हास्यं बहुदोषलम् ।। ३८९ ॥ या त्वेषा कृष्णसर्वाङ्गी, गाढं बीभत्सदर्शना । दृश्यते ललना सेयमरति म विश्रुता ॥ ३९० ॥ किश्चित्कारणमासाद्य, बहिरङ्गजने सदा । करोत्येष मनोदुःखं, जृम्भमाणाऽतिदुःसहम् ॥ ३९१ ॥ यस्त्वेष दृश्यते भद्र!, कम्पमानशरीरकः । पुरुषः स भयो नाम, प्रसिद्धो गाढदुःसहः ।। ३९२ ॥ विलसन्नेष महाटव्यामेतस्यां किल लीलया । बहिरङ्गजनानुचैः, कुरुते कातराननान् ॥३९३।। कथम्?-त्रस्यन्तीह मनुष्यादेः, कम्पन्ते पशुसंहतेः । अर्थादिहानि मन्वानाः, पलायन्तेऽतिकातराः ॥ ३९४ ॥ अकस्मादेव जायन्ते, त्रस्तास्तरललोचनाः । जीविष्यामः कथं चेति, चिन्तया सन्ति विह्वलाः ॥३९५॥ * मरिष्यामो मरिष्याम, इत्येवं भावनापराः । मुधैव जीवितं हित्वा, वियन्ते सत्त्ववर्जिताः ॥३९६॥ जने च मा भूदश्लाघेत्येवं भावेन विह्वलाः। नोचितान्यपि कुर्वन्ति, कर्माणि पुरुषाधमाः॥३९७ ॥ स एष निकटस्थायिसप्तमानुषसम्पदा । विजृम्भते भयो भद्र!, बहिरङ्गजने सदा ।। ३९८॥ किं च-पलायनं रणे दैन्यमरीणां पादवन्दनम् । अस्यादेशेन निर्लज्जास्ते कुर्वन्ति नराधमाः॥३९९॥ तदेवं भद्र! लोकेऽत्र, ये भयस्य वशं गताः । विनाटिताः परत्रापि, यान्ति भीमे भवोदधौ ॥ ४० ॥ अस्यापि च शरीरस्था, भार्याऽस्ति पतिवत्सला । संवर्धिका कुटुम्बस्य, प्रोच्यते हीनसत्त्वता ॥ ४०१ ।। तां हीनसत्त्वतां देहाद्भार्यामेष न मुञ्चति । नूनं हि म्रियते भद्र !, NAGARILALCALCASSAR | भयहीनसत्त्वते | ॥३७१॥ Jain Education inED For Private & Personal use only V inelibrary.org

Loading...

Page Navigation
1 ... 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474