________________
उपमितौ च. ४-अ.
॥३७१॥
युग्मम् । आशङ्कायाः पदं लोके, जायन्ते निर्निमित्तकम् । जनयन्ति परे वैरं, लभन्ते वक्रविभ्रमम् ॥ ३८४ ॥ मक्षिकामशकादीनामपघातं च देहिनाम् । आचरन्ति विना कार्य, परेषां च पराभवम् ॥ ३८५॥ तदिदं भद्र! निःशेषमिह लोके विज़म्भते । हासोऽयं परलोकेऽस्मात्कर्मबन्धः सुदारुणः ॥ ३८६ ॥ अस्त्यस्य तुच्छता नाम, सद्भार्या हितकारिणी । देहस्थाऽस्यैव पश्यन्ति, तां भो गम्भीरचेतसः ॥ ३८७ ॥ एनमुल्लासयत्येव, निमित्तेन विना सदा । हासं सा तुच्छता वत्स!, लघुलोके यथेच्छया ॥ ३८८ ॥ यतो गम्भीरचित्तानां, निमित्ते सुमहत्यपि । मुखे विकासमात्रं स्यान्न हास्यं बहुदोषलम् ।। ३८९ ॥ या त्वेषा कृष्णसर्वाङ्गी, गाढं बीभत्सदर्शना । दृश्यते ललना सेयमरति म विश्रुता ॥ ३९० ॥ किश्चित्कारणमासाद्य, बहिरङ्गजने सदा । करोत्येष मनोदुःखं, जृम्भमाणाऽतिदुःसहम् ॥ ३९१ ॥ यस्त्वेष दृश्यते भद्र!, कम्पमानशरीरकः । पुरुषः स भयो नाम, प्रसिद्धो गाढदुःसहः ।। ३९२ ॥ विलसन्नेष महाटव्यामेतस्यां किल लीलया । बहिरङ्गजनानुचैः, कुरुते कातराननान् ॥३९३।। कथम्?-त्रस्यन्तीह मनुष्यादेः, कम्पन्ते पशुसंहतेः । अर्थादिहानि मन्वानाः,
पलायन्तेऽतिकातराः ॥ ३९४ ॥ अकस्मादेव जायन्ते, त्रस्तास्तरललोचनाः । जीविष्यामः कथं चेति, चिन्तया सन्ति विह्वलाः ॥३९५॥ * मरिष्यामो मरिष्याम, इत्येवं भावनापराः । मुधैव जीवितं हित्वा, वियन्ते सत्त्ववर्जिताः ॥३९६॥ जने च मा भूदश्लाघेत्येवं
भावेन विह्वलाः। नोचितान्यपि कुर्वन्ति, कर्माणि पुरुषाधमाः॥३९७ ॥ स एष निकटस्थायिसप्तमानुषसम्पदा । विजृम्भते भयो भद्र!, बहिरङ्गजने सदा ।। ३९८॥ किं च-पलायनं रणे दैन्यमरीणां पादवन्दनम् । अस्यादेशेन निर्लज्जास्ते कुर्वन्ति नराधमाः॥३९९॥ तदेवं भद्र! लोकेऽत्र, ये भयस्य वशं गताः । विनाटिताः परत्रापि, यान्ति भीमे भवोदधौ ॥ ४० ॥ अस्यापि च शरीरस्था, भार्याऽस्ति पतिवत्सला । संवर्धिका कुटुम्बस्य, प्रोच्यते हीनसत्त्वता ॥ ४०१ ।। तां हीनसत्त्वतां देहाद्भार्यामेष न मुञ्चति । नूनं हि म्रियते भद्र !,
NAGARILALCALCASSAR
| भयहीनसत्त्वते
|
॥३७१॥
Jain Education inED
For Private & Personal use only
V
inelibrary.org