________________
उपमितौ
च. ४- प्र.
॥ ३७२ ॥
Jain Education In
भयोऽयं रहितस्तया ॥ ४०२ ॥ भद्र ! प्रत्यभिजानीपे, किमेनं तु न साम्प्रतम् ? । तं तत्र नगरे शोकं, यममुं द्रक्ष्यसि स्फुटम् ॥ ४०३ ॥ अनेनैव तदा वार्ता, समस्ताऽपि निवेदिता । सोऽयं समागतस्तूर्णं, शोको भद्र! पुनर्बले ॥ ४०४ ॥ अपेक्ष्य कारणं किञ्चिदयं लोके बहिर्गते । आविर्भूतः करोत्येव, दैन्याक्रन्दनरोदनम् ॥ ४०५ ॥ इष्टैर्वियुक्ता ये लोका, निमग्नाश्च महापदि । अनिष्ठैः संप्रयुक्ताश्च तस्य स्युर्वशवर्तिनः ॥ ४०६ ॥ न लक्षयन्ति ते मूढा, यथैष रिपुरुच्चकैः । अस्यादेशेन मुञ्चन्ति, आराटीः केवलं जडाः || ४०७ ॥ एष शोकः किलास्माकं, दुःखत्राणं करिष्यति । अयं तु वर्धयत्येव, तेषां दुःखं निषेवितः ॥ ४०८ ॥ न साधयन्ति ते स्वार्थ, धर्माद्भश्यन्ति मानवाः । प्राणैरपि वियुज्यन्ते, मूर्च्छासंमीलितेक्षणाः ॥ ४०९ ॥ ताडनं शिरसोऽत्यर्थ, लुभ्वनं कचसन्ततेः । कुट्टनं वक्षसो भूमौ, लोठनं गाढविक्लवम् ॥ ४१० ॥ तथाऽऽत्मोल्लम्बनं रज्वा पतनं च जलाशये । दहनं वह्निना शैलशिखरादात्ममोचनम् ॥ ४११ ॥ भक्षणं का| लकूटादेः, शस्त्रेणात्मनिपातनम् । प्रलापनमुन्मादं च, वैक्लव्यं दैन्यभाषणम् ॥ ४१२ ॥ अन्तस्तापं महाघोरं, शब्दादिसुखवञ्चनम् । लभन्ते पुरुषा भद्र !, ये शोकवशवर्तिनः ॥ ४१३ ॥ इत्थं भूरितरं दुःखं, प्राप्नुवन्तीह ते भवे । कर्मबन्धं विधायोच्चैर्यान्त्यमुत्र च दुर्गतौ ॥ ४१४ ॥ तदेष बहिरङ्गानां दुःखदो भद्र ! देहिनाम् । किञ्चिल्लेशेन शोकस्ते, वर्णितः पुरतो मया ॥ ४१५ ।। अस्यापि च शरीरस्था, | भवस्था नाम दारुणा । विद्यते पत्त्रिका वत्स !, शोकस्य गृहनायिका ॥ ४१६ ॥ साऽस्य संवर्धिका ज्ञेया, तां विना नैव जीवति । अत एव शरीरस्थां धारयत्येष सर्वदा ॥ ४१७ ॥ या त्वेषा दृश्यते कृष्णा, भोः संकोचितनासिका । नारी सा सूरिभिर्भद्र !, जुगुप्सा परिकीर्तिता ॥ ४९८ ॥ इयं तु बहिरङ्गानां लोकानां मनसोऽधिकम् । व्यलीकभावमाधत्ते, तत्त्वदर्शनवर्जिनाम् ॥ ४१९ ॥ कृमिजालोल्वणं देहं पूयकिन्नं मलाविलम् । वस्तु दुर्गन्धि बीभत्सं ते हि दृष्ट्वा कथंचन ।। ४२० ॥ कुर्वन्ति शिरसः कम्पं नासिकाधूननं जडाः । दूरतः
For Private & Personal Use Only
शोकभवस्थे
॥ ३७२ ॥
helibrary.org