________________
प्रपलायन्ते, मीलयन्ति च लोचने ॥ ४२१ ॥ हुं हुं हुमिति जल्पन्ति, वत्रां कुर्वन्ति कन्धराम् । विशन्ति शौचवादेन, सचेलाः शीतले | जले || ४२२ || नासिकां कुभ्वयन्त्युच्चैर्निष्ठीवन्ति मुहुर्मुहुः । आश्लेषे वर्त्मचेलादेः क्रुद्धाः स्नान्ति पुनः पुनः ॥ ४२३ ॥ छायामपि च नेच्छन्ति, परेषां स्प्रष्टुमात्मना । जायन्ते शौचवादेन, वेताला इव दुःखिताः ॥ ४२४ || चित्तशूकावशादेव, साक्षादुन्मत्तका अपि । ॥ ३७३ ॥ ४९ केचिद्भद्र ! प्रजायन्ते, ये जुगुप्सावशं गताः ।। ४२५ ।। परलोके पुनर्यान्ति, तत्त्वदर्शनवर्जिताः । तमोऽभिभूतास्ते मूर्खा, घोरसंसार
| चारके ॥ ४२६ ॥ तदेवं बहिरङ्गानां लोकानां बहुदुःखदा । किञ्चित्ते वर्णिता भद्र !, जुगुप्साऽपि मयाऽधुना ॥ ४२७ ॥ प्रकर्षः प्राह — दृश्यन्ते, यान्येतानि पुरो मया । निविष्टानि नरेन्द्राणामुत्सङ्गादिषु लीलया ।। ४२८ ।। गाढं दुर्दान्तचेष्टानि, चटुलानि विशेषतः । आरक्तकृष्णवर्णानि, डिम्भरूपाणि षोडश ॥ ४२९ ॥ अमूनि नामभिर्माम!, गुणैश्च सुपरिस्फुटम् । अधुना वर्ण्यमानानि श्रोतुमिच्छाम्यहं त्वया ॥ ४३० || विमर्शः प्राह – सर्वेषामेतेषां सूरिभिः पुरा । सामान्यतः कषायाख्या, भद्र! लोके प्रकाशिता ।। ४३१ ॥ विशेषतः पुनर्भद्र !, यान्येतानीह वीक्षसे । महत्तमानि दुष्टानि, सर्वेषामग्रतस्तथा ॥ ४३२ ॥ चत्वारि गर्भरूपाणि, रौद्राकाराणि भावतः । तान्यनन्तानुबन्धीनि गीतानि किल संज्ञया ॥ ४३३ ॥ अमूनि च प्रकृत्यैव, मिथ्यादर्शननामकः । अयं महत्तमो भद्र !, स्वात्मभूतानि पश्यति ।। ४३४ ॥ ततश्च बहिरङ्गानां लोकानां निजवीर्यतः । एतान्यपि प्रकुर्वन्ति, मिथ्यादर्शनभक्तताम् ॥ ४३५ ॥ यतः — यावदे - तानि जृम्भन्ते, डिम्भरूपाणि लीलया । चित्तवृत्तिमहाटव्यां तावत्ते बाह्यमानुषाः || ४३६ ॥ अनन्यचित्ताः सततमेनमेव महत्तमम् । लोकवाक्यनिराकाङ्क्षाः, सद्भक्तया पर्युपासते ।। ४३७ ॥ अत एव च - चित्तवृत्तिमहाटव्यामुल्लसत्वेषु ते जनाः । न तत्त्वमार्ग भावेन, प्रपद्यन्ते कदाचन || ४३८ ।। एवं स्थिते ये दोषा वर्णिताः पूर्व, मिथ्यादर्शनसंश्रयाः । बहिर्जनानां सर्वेषां तेषामेतानि कारणम् ॥४३९||
उपमितौ च. ४-प्र.
उ. भ. ३२
Jain Education International
For Private & Personal Use Only
कषायस्वरूपं
॥ ३७३ ॥
jainelibrary.org