________________
उपमित्तौ च. ४-प्र.
कषायस्वरूपं
॥ ३७४॥
RECESAMACCALCCASSA
एतेभ्यो लघुरूपाणि, यानि चत्वारि सुन्दर! । अप्रत्याख्याननामानि, तानि गीतानि पण्डितैः ॥४४०॥ एतानि निजवीर्येण, बहिरङ्गमनुज्यकान् । प्रवर्तयन्ति पापेषु, वारयन्ति निवर्तनम् ॥ ४४१ ॥ किं बहुना?-यावदेतानि गाहन्ते, चित्तवृत्तिमहाटवीम् । तावद्भद्र ! नि
वर्तन्ते, न ते पापादणोरपि ॥ ४४२ ॥ तत्त्वमार्ग प्रपद्येरनेतेषु विलसत्स्वपि । लभन्ते तद्बलात्सौख्यं, विरतिं तु न कुर्वते ॥ ४४३ ॥ 5 ततस्तेऽमुत्र संतप्ता, निपतन्ति परत्र च । विधाय पापसंघातं, संसारगहने जनाः ॥ ४४४ ॥ यान्येतानि पुनर्भद्र!, लघीयांसि ततोऽपि
च । प्रत्याख्यावारकाणीह, बुधास्तानि प्रचक्षते ॥४४५॥ अमूनि किल वल्गन्ते, यावदत्रैव मण्डपे । बहिरङ्गजनाः सर्वं, तावन्मुञ्चन्त्यघं न वै ॥ ४४६॥ किञ्चिन्मात्रं तु मुञ्चेयुः, पापं बाह्यजनाः किल । चित्तवृत्तिमहाटव्यामेतेषु विलसत्सु भोः ॥ ४४७ ॥ एतान्यपि स्वरूपेण, तस्मात्सन्तापकारणम् । बहिर्जनानां कल्याणे, विरतिस्तत्र कारणम् ॥ ४४८ ॥ एतेभ्योऽपि लघीयांसि, यान्येतानीह सुन्दर । वर्तन्ते गर्भरूपाणि, चत्वारि तव गोचरे ॥ ४४९ ॥ तानि संज्वलनाख्यानि, गीतानि मुनिपुङ्गवैः । लीलया चटुलानीत्थमुल्लसन्ति मुहु-| | र्मुहुः ॥ ४५० ॥ एतानि सर्वपापेभ्यो, विरतानामपि देहिनाम् । इहोल्लसन्ति कुर्वन्ति, बाह्यानां चित्तविप्लवम् ॥ ४५१ ॥ दूषयन्ति ततो भूयः, सर्वपापनिबर्हणम् । ते सातिचारा जायन्ते, वीर्येणैषां बहिर्जनाः ॥ ४५२ ॥ न सुन्दराणि सर्वेषां, तदेतान्यपि देहिनाम् । लघुरू-| पाणि दृश्यन्ते, तात! यद्यपि जन्तुभिः ॥ ४५३ ॥ चतुष्टयानि चत्वारि, तदेतानि विशेषतः । एतेषां नामभिर्भद्र!, गुणैश्च कथितानि ते ॥ ४५४ ॥ प्रत्येकं यानि नामानि, ये गुणाश्च विशेषतः । एतेषां तत्पुनर्भद्र !, को वा वर्णयितुं क्षमः ? ॥ ४५५ ॥ तस्मात्ते कथयिष्यामि, विश्रब्धः कुत्रचित्पुनः । प्रस्तावागतमेवेह, वीर्यमेषां विशेषतः ॥ ४५६ ॥ अन्यच्च-एतेषां गर्भरूपाणां, मध्येऽष्टौ परया मुदा । यान्ये
DI||३७४॥ तानि प्रनृत्यन्ति, रागकेसरिणोऽप्रतः ॥ ४५७ ॥ तान्यस्मादेव जातानि, रागकेसरिणः किल । अत्यन्तवल्लभान्यस्य, मूढतानन्दनानि च
RECECARRRRRRC
Jain Education S
oal
For Private & Personel Use Only
mar.jainelibrary.org