SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ उपमितौ च. ४- प्र. ॥ ३७५ ॥ Jain Education ॥४५८॥ युग्मम् । यानि त्वेतानि चेष्टन्ते, क्रीडयाऽष्टौ मुहुर्मुहुः । पुरो द्वेषगजेन्द्रस्य, गर्भरूपाणि सुन्दर ! ॥ ४५९॥ अस्मादेव प्रसूतानि, प्रियाणि द्वेषभूपतेः । माताऽविवेकिताऽमीषां सर्वेषां भद्र ! गीयते ॥४६०॥ युग्मम् । एवं च स्थिते - महामोहनरेन्द्रस्य, यानि पौत्राणि सुन्दर ! । तत्पुत्रयोरपत्यानि, तात ! विख्यातवीर्ययोः ॥ ४६१ ॥ तेषाममीषां लोकेऽत्र, दौर्लालित्यविराजितम् । वीर्यं सहस्रजिह्वोऽपि को निवेदयितुं क्षमः १ ॥ ४६२ ॥ युग्मम् । पश्य पश्यात एवैषामेतानि निजचेष्टितैः । शीर्षे सिद्धार्थकायन्ते, सर्वेषामेव भूभुजाम् ||४६३॥ तदिदं ते समासेन, मया तात ! निवेदितम् । महामोहनरेन्द्रस्य, स्वाङ्गभूतं कुटुम्बकम् ॥ ४६४ ॥ ये त्वमी वेदिकाऽभ्यर्णे, विवर्तन्ते महीभुजः । ते महामोहराजस्य, स्वाङ्गभूताः पदातयः || ४६५ ॥ तत्र च य एष दृश्यते भद्र !, रागकेसरिणोऽयतः । आलिष्टललनो मृष्टं, ताम्बूलं स्वादयन्नम् ॥ ४६६ || रणद्विरेफरिञ्छोलिसूचितोत्कटगन्धकम् । लीलाकमलमत्यर्थमाजिघ्रेश्च मुहुर्मुहुः ॥ ४६७ || स्वभार्याऽमलवाब्जे, कुर्वाणो दृष्टिविभ्रमम् । वल्लकीनूपुरारावकाकलीगीतलम्पटः ॥ ४६८ ॥ यश्चैवं विषयानेष, पञ्चापि किल लीलया । भुञ्जानो मन्यते सर्व|मात्मनो मुष्टिमध्यगम् ||४६९॥ भद्र! सोऽयमिहायाता, वयं यस्य दिदृक्षया । रागकेसरिणो मन्त्री, लोके विख्यातपौरुषः || ४७० || पञ्चभिः कुलकं । अस्यैव तानि वर्तन्ते, पुत्रभाण्डानि सुन्दर ! । यानि मिथ्याभिमानेन कथितानि पुराऽऽवयोः ॥ ४७१ ॥ तद्वशेन जगत्सर्वं वशीकृत्य महाबलः । भद्र ! मूनं करोत्येव, चेष्टया तुल्यमात्मनः ॥ ४७२ ॥ तथाहि - एतत्प्रयुक्तैर्ये दृष्टा, मानुषैर्भद्र ! देहिनः । ते स्पर्शरससद्गन्धरूपशब्देषु लालसाः ॥ ४७३ ॥ कार्याकार्यं न पश्यन्ति, बुध्यन्ते नो हिताहितम् । भक्ष्याभक्ष्यं न जानन्ति, धर्माचारवहिष्कृताः ॥ ४७४ ॥ तन्मात्रलब्धसौहार्दा, वर्तन्ते सार्वकालिकम् । नान्यत्किञ्चन वीक्षन्ते, यथाऽसौ वर्तते जडः ॥ ४७५ ॥ त्रिभिर्विशेषकम् । दर्शनादेव निर्णीतो, बुद्ध्या च परिनिश्चितः । रसनाजनको भद्र !, स एवायं न संशयः ॥ ४७६ ॥ रागकेसरिणो राज्यं, तन्त्रयन्निखिलं For Private & Personal Use Only विषयाभिलाषः ॥ ३७५ ॥ ainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy