________________
उपमिती च.४-प्र.
॥३७६॥
सदा । परबुद्धिप्रयोगेण, नैवैष प्रतिहन्यते ॥४७७ ॥ पुरुषाः पण्डितास्तावहिरङ्गा दृढव्रताः। यावदेष स्ववीर्येण, तान्नो क्षिपति कुत्रचित् ४॥ ४७८ ॥ यदा पुनर्महाप्राज्ञस्तानेष सचिवः कचित् । आरभेत स्ववीर्येण, बहिरङ्गमनुष्यकान् ॥ ४७९ ॥ तदा ते निहतप्राया, बालिशा
इव किङ्कराः।व्रताग्रहं विमुच्यास्य, जायन्ते विगतत्रपाः॥४८०॥ युग्मम् । वर्धयत्येष साम्राज्यमेतेषामेव भूभुजाम् । बहिरङ्गजनस्यायममात्यो दुःखदः सदा ॥ ४८१ ॥ यतः-अस्यादेशेन कुर्वन्ति, पापं ते बाह्यमानुषाः । तच्च पापं कृतं तेषामिहामुत्र च दुःखदम् ॥ ४८२ ।। | निपुणो नीतिमार्गेषु, गाढं निर्व्याजपौरुषः । भेदकः परचित्तानामुपायकरणे पटुः॥ ४८३ ॥ विदिताशेषवृत्तान्तः, सन्धिविग्रहकारकः । विकल्पबहुलो लोके, सचिवो नास्त्यमूदृशः ॥ ४८४ ।। युग्मम् । किं चात्र बहुनोक्तेन ?, तावदेते नरेश्वराः । यावदेष महामन्त्री, तन्त्रको | राज्यसंहतेः ।। ४८५ ॥ ततः सहर्षः प्रकर्षोऽब्रवीत् साधु माम! साधु सुन्दरं निर्णीतं मामेन, न तिलतुषत्रिभागमात्रयाऽपि चल४ तीदं, एवंविध एवायं विषयाभिलाषो महामन्त्री, नास्त्यत्र सन्देहः, तथाहि-आकारदर्शनादेव, ते गुणा मम मानसे । आदावेव समा-18
रूढा, येऽस्य संवर्णितास्त्वया ॥४८६॥ विमर्शः प्राह-नाश्चर्य, लक्षयन्ति भवादृशाः । नराणां दृष्टमात्राणां, यद्गुणागुणरूपताम् ॥४८७॥ तथाहि ज्ञायते रूपतो जातिर्जातेः शीलं शुभाशुभम् । शीलाद्गुणाः प्रकाशन्ते,गुणैः सत्त्वं महाधियाम् ।।४८८॥ न केवलं त्वया
भोगत. स्यैव, दर्शनादेव लक्षिताः । गुणाः किं तर्हि ? सर्वेषां, नूनमेषां महीभुजाम् ।। ४८९ ॥ बुद्धेर्जातस्य ते भद्र !, किं वा स्यादविनिश्चितम्।
ष्णास्व० M यत्तु मां प्रश्नयस्येवं, तात! सा तेऽभिजातता ॥ ४९० ॥ प्रकर्षः प्राह-यद्येवं, ततो माम! निवेद्यताम् । किनामिकेयं भार्याऽस्य ?, मत्रिणो मुग्धलोचना ।। ४९१ ॥ विमर्शः प्राह-भद्रेयं, भोगतृष्णाऽभिधीयते । गुणैस्तु तुल्या विज्ञेया, सर्वथाऽस्यैव मत्रिणः ॥ ४९२ ॥ ये त्वेते पुरतः केचित्पार्श्वतः पृष्ठतोऽपरे । दृश्यन्ते भूभुजो भद्र!, मत्रिणोऽस्य नताननाः ।। ४९३ ॥ दुष्टाभिसन्धिप्रमुखास्ते विज्ञेया
Jain Education
For Private & Personel Use Only
www.jainelibrary.org