SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ उपमिती च.४-प्र. ॥३७६॥ सदा । परबुद्धिप्रयोगेण, नैवैष प्रतिहन्यते ॥४७७ ॥ पुरुषाः पण्डितास्तावहिरङ्गा दृढव्रताः। यावदेष स्ववीर्येण, तान्नो क्षिपति कुत्रचित् ४॥ ४७८ ॥ यदा पुनर्महाप्राज्ञस्तानेष सचिवः कचित् । आरभेत स्ववीर्येण, बहिरङ्गमनुष्यकान् ॥ ४७९ ॥ तदा ते निहतप्राया, बालिशा इव किङ्कराः।व्रताग्रहं विमुच्यास्य, जायन्ते विगतत्रपाः॥४८०॥ युग्मम् । वर्धयत्येष साम्राज्यमेतेषामेव भूभुजाम् । बहिरङ्गजनस्यायममात्यो दुःखदः सदा ॥ ४८१ ॥ यतः-अस्यादेशेन कुर्वन्ति, पापं ते बाह्यमानुषाः । तच्च पापं कृतं तेषामिहामुत्र च दुःखदम् ॥ ४८२ ।। | निपुणो नीतिमार्गेषु, गाढं निर्व्याजपौरुषः । भेदकः परचित्तानामुपायकरणे पटुः॥ ४८३ ॥ विदिताशेषवृत्तान्तः, सन्धिविग्रहकारकः । विकल्पबहुलो लोके, सचिवो नास्त्यमूदृशः ॥ ४८४ ।। युग्मम् । किं चात्र बहुनोक्तेन ?, तावदेते नरेश्वराः । यावदेष महामन्त्री, तन्त्रको | राज्यसंहतेः ।। ४८५ ॥ ततः सहर्षः प्रकर्षोऽब्रवीत् साधु माम! साधु सुन्दरं निर्णीतं मामेन, न तिलतुषत्रिभागमात्रयाऽपि चल४ तीदं, एवंविध एवायं विषयाभिलाषो महामन्त्री, नास्त्यत्र सन्देहः, तथाहि-आकारदर्शनादेव, ते गुणा मम मानसे । आदावेव समा-18 रूढा, येऽस्य संवर्णितास्त्वया ॥४८६॥ विमर्शः प्राह-नाश्चर्य, लक्षयन्ति भवादृशाः । नराणां दृष्टमात्राणां, यद्गुणागुणरूपताम् ॥४८७॥ तथाहि ज्ञायते रूपतो जातिर्जातेः शीलं शुभाशुभम् । शीलाद्गुणाः प्रकाशन्ते,गुणैः सत्त्वं महाधियाम् ।।४८८॥ न केवलं त्वया भोगत. स्यैव, दर्शनादेव लक्षिताः । गुणाः किं तर्हि ? सर्वेषां, नूनमेषां महीभुजाम् ।। ४८९ ॥ बुद्धेर्जातस्य ते भद्र !, किं वा स्यादविनिश्चितम्। ष्णास्व० M यत्तु मां प्रश्नयस्येवं, तात! सा तेऽभिजातता ॥ ४९० ॥ प्रकर्षः प्राह-यद्येवं, ततो माम! निवेद्यताम् । किनामिकेयं भार्याऽस्य ?, मत्रिणो मुग्धलोचना ।। ४९१ ॥ विमर्शः प्राह-भद्रेयं, भोगतृष्णाऽभिधीयते । गुणैस्तु तुल्या विज्ञेया, सर्वथाऽस्यैव मत्रिणः ॥ ४९२ ॥ ये त्वेते पुरतः केचित्पार्श्वतः पृष्ठतोऽपरे । दृश्यन्ते भूभुजो भद्र!, मत्रिणोऽस्य नताननाः ।। ४९३ ॥ दुष्टाभिसन्धिप्रमुखास्ते विज्ञेया Jain Education For Private & Personel Use Only www.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy