________________
उपमितौ च. ४-प्र.
ज्ञानावरणाद्याः
महाभटाः।महामोहनरेन्द्रस्य, स्वाङ्गभूताः पदातयः॥४९४॥युग्मम् अन्यच्च-महामोहनृपस्येष्टा, रागकेसरिणो मताः । भृत्या द्वेषगजेन्द्रस्य, | सर्वेऽप्येते महीभुजः॥ ४९५ ॥ अनेन मत्रिणाऽऽदिष्टा, राज्यकार्येषु सर्वदा । एते भद्र! प्रवर्तन्ते, निवर्तन्ते च नान्यथा ॥ ४९६ ॥ |ये केचिद्वाह्यलोकानां, क्षुद्रोपद्रवकारिणः । अन्तरङ्गा महीपालास्तेऽमीषां मध्यवर्तिनः ॥ ४९७ ॥ नार्यों डिम्भाश्च ये केचिदन्येऽप्येवंविधा।
जने । अमीषां मध्यगाः सर्वे, द्रष्टव्यास्ते महीभुजाम् ॥ ४९८ ॥ तदेते परिमातीता, निवेद्यन्तां कथं मया? । संक्षेपत: समाख्याताः, स्वाङ्गभूताः पदातयः ॥ ४९९ ॥ प्रकर्षः प्राह-ये त्वेते, वेदिकाद्वारवर्तिनः । निविष्टा भूभुजः सप्त, माम! मुत्कलमण्डपे ॥ ५००॥ युक्ताः सत्परिवारेण, नानारूपविराजिनः । एते किंनामका ज्ञेयाः?, किंगुणा वा महीभुजः ? ॥ ५०१ ॥ विमर्शः प्राह-भद्रेते, सप्तापि वरभूभुजः । महामोहनृपस्यैव, बहिर्भूताः पदातयः॥ ५०२ ॥ तत्र च-य एष दृश्यते भद्र!, संयुक्तः पञ्चभिर्नरैः । ज्ञानसंवरणो नाम, प्रसिद्धः स महीपतिः ॥ ५०३ ॥ अत्रैव वर्तमानोऽयं, बहिःस्थं सकलं जनम् । करोयन्धं स्ववीर्येण, ज्ञानोद्योतविवर्जितम् ॥५०४॥ कि च–सान्द्राज्ञानान्धकारेण, यतो मोहयते जनम् । ततोऽयं शिष्टलोकेन, मोह इत्यपि कीर्तितः ॥ ५०५ ॥ यस्त्वेष नवभिर्युक्तो,
मानुषैः प्रविभाव्यते । दर्शनावरणो नाम, विख्यातः स महीतले ।। ५०६ ॥ दृश्यन्ते पञ्च या नार्यस्ताः स्ववीर्येण सुन्दराः । करोत्येष ४ जगत्सर्व, घूर्णमानगतिक्रियम् ॥ ५०७ ॥ ये त्वमी पुरुषा भद्र!, चत्वारोऽस्य पुरः स्थिताः । एतत्सामर्थ्ययोगेन, जगदन्धं करोत्ययम्
॥५०८ ॥ नरद्वयसमायुक्तो, यः पुनर्भद्र! दृश्यते । स एष वेदनीयाख्यो, राजा विख्यातपौरुषः ॥ ५०९ ॥ सातनामा प्रसिद्धोऽस्य,
जगति प्रथमो नरः । करोत्याहादसन्दोहनन्दितं भुवनत्रयम् ॥ ५१० ॥ द्वितीयः पुरुषो भद्र!, यस्त्वस्य प्रविलोक्यते । असातनामकः ४ सोऽयं, जगत्सन्तापकारकः॥ ५११ ॥ दीर्घहस्वैः समायुक्तश्चतुर्भिडिम्भरूपकैः । विवर्तते महीपालो, यस्त्वेष तव गोचरे ॥ ५१२ ।।
||३७७॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org