SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ उपमितौ च. ४-प्र. ज्ञानावरणाद्याः महाभटाः।महामोहनरेन्द्रस्य, स्वाङ्गभूताः पदातयः॥४९४॥युग्मम् अन्यच्च-महामोहनृपस्येष्टा, रागकेसरिणो मताः । भृत्या द्वेषगजेन्द्रस्य, | सर्वेऽप्येते महीभुजः॥ ४९५ ॥ अनेन मत्रिणाऽऽदिष्टा, राज्यकार्येषु सर्वदा । एते भद्र! प्रवर्तन्ते, निवर्तन्ते च नान्यथा ॥ ४९६ ॥ |ये केचिद्वाह्यलोकानां, क्षुद्रोपद्रवकारिणः । अन्तरङ्गा महीपालास्तेऽमीषां मध्यवर्तिनः ॥ ४९७ ॥ नार्यों डिम्भाश्च ये केचिदन्येऽप्येवंविधा। जने । अमीषां मध्यगाः सर्वे, द्रष्टव्यास्ते महीभुजाम् ॥ ४९८ ॥ तदेते परिमातीता, निवेद्यन्तां कथं मया? । संक्षेपत: समाख्याताः, स्वाङ्गभूताः पदातयः ॥ ४९९ ॥ प्रकर्षः प्राह-ये त्वेते, वेदिकाद्वारवर्तिनः । निविष्टा भूभुजः सप्त, माम! मुत्कलमण्डपे ॥ ५००॥ युक्ताः सत्परिवारेण, नानारूपविराजिनः । एते किंनामका ज्ञेयाः?, किंगुणा वा महीभुजः ? ॥ ५०१ ॥ विमर्शः प्राह-भद्रेते, सप्तापि वरभूभुजः । महामोहनृपस्यैव, बहिर्भूताः पदातयः॥ ५०२ ॥ तत्र च-य एष दृश्यते भद्र!, संयुक्तः पञ्चभिर्नरैः । ज्ञानसंवरणो नाम, प्रसिद्धः स महीपतिः ॥ ५०३ ॥ अत्रैव वर्तमानोऽयं, बहिःस्थं सकलं जनम् । करोयन्धं स्ववीर्येण, ज्ञानोद्योतविवर्जितम् ॥५०४॥ कि च–सान्द्राज्ञानान्धकारेण, यतो मोहयते जनम् । ततोऽयं शिष्टलोकेन, मोह इत्यपि कीर्तितः ॥ ५०५ ॥ यस्त्वेष नवभिर्युक्तो, मानुषैः प्रविभाव्यते । दर्शनावरणो नाम, विख्यातः स महीतले ।। ५०६ ॥ दृश्यन्ते पञ्च या नार्यस्ताः स्ववीर्येण सुन्दराः । करोत्येष ४ जगत्सर्व, घूर्णमानगतिक्रियम् ॥ ५०७ ॥ ये त्वमी पुरुषा भद्र!, चत्वारोऽस्य पुरः स्थिताः । एतत्सामर्थ्ययोगेन, जगदन्धं करोत्ययम् ॥५०८ ॥ नरद्वयसमायुक्तो, यः पुनर्भद्र! दृश्यते । स एष वेदनीयाख्यो, राजा विख्यातपौरुषः ॥ ५०९ ॥ सातनामा प्रसिद्धोऽस्य, जगति प्रथमो नरः । करोत्याहादसन्दोहनन्दितं भुवनत्रयम् ॥ ५१० ॥ द्वितीयः पुरुषो भद्र!, यस्त्वस्य प्रविलोक्यते । असातनामकः ४ सोऽयं, जगत्सन्तापकारकः॥ ५११ ॥ दीर्घहस्वैः समायुक्तश्चतुर्भिडिम्भरूपकैः । विवर्तते महीपालो, यस्त्वेष तव गोचरे ॥ ५१२ ।। ||३७७॥ Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy