Book Title: Upmitibhava Prapancha Katha Purvarddha
Author(s): Siddharshi Gani,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
उपमितौ च. ४-प्र.
मृदुतास| त्यते कन्ये
॥४६४॥
नरवाहन
द्वे भार्ये, वरतावर्यते किल ।। ४१४ ॥ मृदुतासत्यते नाम, तस्य द्वे कन्यके शुभे । विद्येते भुवनानन्दकारिके चारुदर्शने ॥ ४१५॥ साक्षादमृतरूपे ते, ते सर्वसुखदायिके । अत्यन्तदुर्लभे भूप!, मृदुतासत्यते जनैः ॥ ४१६ ॥ एवं च स्थिते-कदाचिदेष ते कन्ये, लप्स्यते रिपुदारणः । तल्लामे च वयस्याभ्यामाभ्यामेष वियोक्ष्यते ॥ ४१७ ॥ यतः-गुणसन्दोहभूते ते, तथेमौ दोषपुखको । तस्मात्ताभ्यां सहावस्था, नानयोभूप! पापयोः ॥ ४१८ ॥ ततः प्रयोजनस्यास्य, कश्चिदन्यो विचिन्तकः । यत्तु तेऽभिमतं भूप!, तदेवाचर साम्प्रतम् ॥ ४१९ ॥ तच्छ्रुत्वाचिन्तयद्राजा, स तदा नरवाहनः । अहो कष्टमहो कष्टं, सूनोर्मम तपस्विनः ॥ ४२० ॥ यस्येदृशौ रिपू | नित्यं, पार्श्वस्थौ दुःखदायिनौ । अहो वराको नैवासौ, यथार्थो रिपुदारणः ॥ ४२१ ॥ ततः किं क्रियतामत्र?, नैवास्त्यस्य प्रतिक्रिया । त्यक्तसङ्गोऽधुनाऽहं तत्करोमि हितमात्मने ।। ४२२।। ततोऽभिषिच्य मां राज्ये, कृत्वा सर्व यथोचितम् । विचक्षणगुरोः पार्श्वे, निष्क्रान्तो नरवाहनः ॥ ४२३ ।। ततश्च-विवेकशिखरस्थोऽपि, स विचक्षणसूरिणा । सार्ध बाह्येषु देशेषु,विजहार महामतिः ॥ ४२४॥ ममापि राज्ये संपन्ने, लब्धावसरसौष्ठवौ । शैलराजमृषावादी, नितरामभिवर्धितौ ॥ ४२५ ॥ तृणतुल्यं जगत्सर्व, पश्यामि सुतरां ततः । जलगण्डूषसंकाशमनृतं प्रतिभाति मे ॥ ४२६ ॥ एवं च-खिङ्गैरुत्प्रास्यमानस्य, निन्द्यमानस्य पण्डितैः । तुष्टस्य धूर्त्तवचनैरलीकैश्चाटुकर्मभिः ॥ ४२७ ॥ पुण्योदयस्य माहात्म्याद्राज्यं पालयतो मम । गतानि कतिचिद्भद्रे !, वर्षाणि किल लीलया ॥ ४२८ ॥ इतश्चोप्रप्रतापाज्ञः, सार्वभौमो द्विपंतपः । चक्रवर्ती तदा लोके, तपनो नाम भूपतिः ॥ ४२९ ॥ स सर्वबलसामथ्या, महीदर्शनलीलया । भ्रमंस्तत्र समायातः, पुरे सिद्धार्थनामके ॥ ४३० ॥ ततो विदिततद्वारहं मत्रिमहत्तमैः। हितकारितया प्रोक्तो, विज्ञातनृपनीतिभिः ॥ ४३१ ॥ यदुत-चक्रवर्ती जगज्येष्ठस्तपनोऽयं महीपतिः । सदस्य क्रियतां देव!, गत्वा सन्मानपूजनम् ॥ ४३२ ॥ पूज्योऽयं सर्वभूपानामर्चितस्तव
दीक्षा
तपनचत्यागमः
SESSASS
॥४६४॥
Jain Educatio
n
al
For Private & Personel Use Only
Silwww.jainelibrary.org

Page Navigation
1 ... 466 467 468 469 470 471 472 473 474