Book Title: Upmitibhava Prapancha Katha Purvarddha
Author(s): Siddharshi Gani, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 454
________________ उपमितौ च. ४-प्र. ॥ ४५० ॥ Jain Education In दीनां गृहस्थानामुपेक्षणम् । स्थानादिकरणे सम्यक्, तद्भूमीनां प्रमार्जनम् ॥ १७५ ॥ आहारोपधिशय्यानामशुद्धाधिकभावतः । परिष्ठापनमन्तश्च; मनोवाक्काययन्त्रणम् ॥ १७६ ॥ विमुक्तभवकर्तव्यैः सततं सुसमाहितैः । मुनिमि: कारयत्येष, सर्वमेतन्नरोत्तमः ॥ १७७ ॥ तदिदं लेशतो वत्स !, चरितं परिकीर्तितम् । नरस्य संयमाख्यस्य, शेषाणां शृणु साम्प्रतम् ॥ १७८ ॥ य एष सप्तमो वत्स !, दृश्यते पुरुषोत्तमः । यतिधर्मपरीवारे, सत्यनामातिसुन्दरः ॥ १७९ ॥ हितं मिताक्षरं काले, जगदाह्लादकारणम् । अस्यादेशेन भाषन्ते, वचनं मुनिपुङ्गवाः ॥ १८० ॥ शौचाभिधानो यो वत्स !, वर्तते चाष्टमो नरः । द्रव्यभावात्मिकां शुद्धिमस्यादेशेन कुर्वते ॥ १८१ ॥ यदिदं नवमं तात !, डिम्भरूपं मनोहरम् | आकिञ्चन्यमिदं नाम, मुनीनामतिवल्लभम् ॥ १८२ ॥ अवाप्तसौष्ठवं वत्स !, बाह्यान्तरपरिग्रहम् । मुनिभिर्मोचयत्येतच्छुद्धस्फटिक निर्मलम् ॥१८३॥ इदं तु दशमं तात !, गर्भ (डिम्भ) रूपं मनोहरम् । ब्रह्मचर्यमिति ख्यातं, मुनीनां हृदयप्रियम् ॥ १८४ ॥ दिव्यौदारिकसम्बन्धं मनोवाक्काययोगतः । अब्रह्म वारयत्येतत्कृतकारणमोदनैः ॥ १८५ ॥ तदेष दशभिर्वत्स !, मानुषैः परिवारितः । पुरेऽत्र विलसत्येवं, यतिधर्मः स्वलीलया ।। १८६ ।। एषाऽत्र विलसद्दीप्तिर्बालिकाऽमललोचना । सद्भावसारता नाम, भार्याऽस्य मुनिवल्लभा ॥ १८७ ॥ अस्यां जीवति जीवन्त्यां मरणेऽस्या न जीवति । अत्यर्थ रतचित्तोऽस्यां राजसूनुरयं सदा ॥ १८८ ॥ किं चेह बहुनोक्तेन ?, दाम्पत्यमिदमीदृशम् । निर्मिध्यस्नेहगर्भार्थं, न दृष्टं कुत्रचिन्मया ॥ १८९ ॥ यः पुनर्दृश्यते तात !, द्वितीयोऽयं कुमारकः । गृहिधर्माभिधानोऽसौ, कनिष्ठोऽस्य सहोदरः ॥ १९० ॥ यदेष कुरुते वत्स !, युक्तो द्वादशमानुषैः । जैनेन्द्रसत्पुरे, चित्तं, लसन्नुद्दामलीलया ।। १९१ ॥ तदहं वर्णयिष्यामि, पुरतस्ते वरेक्षण ! । चेतः समाहितं कृत्वा तच्च वत्सावधारय ॥। १९२।। ( युग्मम् ) १ आघाकर्मादिदोषात् अतिरिक्त सद्भावाद्वा. For Private & Personal Use Only दशधा यतिधर्मःः सद्भावसारता ॥ ४५० ॥ jainelibrary.org

Loading...

Page Navigation
1 ... 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474