Book Title: Upmitibhava Prapancha Katha Purvarddha
Author(s): Siddharshi Gani,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
उपमितौ
च. ४-प्र. ॥ ४५५ ॥
Jain Education In
मीषां महीभुजाम् ॥ २६७ ॥ ततश्च - असंख्यातजनं वत्स !, पूरितं भूरिभूमिपैः । निःशेषमिदमास्थानं, को हि वर्णवितुं क्षम: ? ॥ २६८ ॥ ततो मयेदं ते वत्स !, समासेन निवेदितम् । गच्छावः साम्प्रतं द्वारे, यदि पूर्ण कुतूहलम् ॥ २६९ ॥ एवं भवतु तेनोक्ते, विनिर्गत्य विलोकितम् । चतुरङ्गं बलं ताभ्यां तदीयं तच्च कीदृशम् ॥ २७० ॥ गाम्भीयौदार्यशौर्यादिनामभिः स्यन्दनैः सदा । प्रेङ्खणघणारावपूरिताशेषदिक्पथम् ॥ २७१ ॥ यशः सौष्ठवसौजन्यप्रश्रयादिमहागजैः । विलसत्कण्ठनिर्घोषसंरुद्धभुवनोदरम् ॥ २७२ ॥ बुद्धिपाटववाग्मित्वनैपुण्यादितुरङ्गमैः । महाद्देषारवापूर्णसत्प्रजाकर्णकोटरम् ॥ २७३ ॥ अचापलमनखित्वदाक्षिण्यादिपदातिभिः । अलब्धगाधविस्तीर्णस्तिमितोदृधिविभ्रमम् ॥ २७४ ॥ चतुर्भिः कलापकम् । ततश्चैवंविधं वीक्ष्य, चतुरङ्गं महाबलम् । प्रकर्षश्चेतसा तुष्टः, प्रोवाच निजमातुलम् ॥ २७५ ॥ यथेष्टमधुना माम!, पूरितं मे कुतूहलम् । यदत्र किञ्चिद्रष्टव्यं तत्सर्वं दर्शितं त्वया ॥ २७६ ॥ तथाहि - दर्शितं भवचक्रं मे, नानावृत्तान्तसङ्कुलम् । महामोहादिवीर्य च, कारणैरपरापरैः ॥ २७७ ॥ विवेकपर्वतश्चायं, दर्शितो मे मनोहरः । निवेदितं च सल्लोकैः, पूर्ण सात्त्विक्रमानसम् ॥ २७८ ॥ शिखरं चाप्रमत्तत्वं, जैनं चेदं महापुरम् । युक्तं महात्मभिर्लोकैर्दर्शितं मम सुन्दरम् ॥ २७९ ॥ तथा चित्तसमाधानो, मण्डपो वेदिका च मे । त्वया निःस्पृहताऽऽख्याता, जीवधीर्थं च विष्टरम् ॥ २८० ॥ वर्णितश्च महाराजः, साक्षात्करणपूर्वकम् । प्रत्येकं वर्णिताः सर्वे, भूपालास्तस्य सेवकाः ॥ २८१ ॥ इवं च दर्शितं रम्यं, चतुरङ्गं महाबलम् । एवं च कुर्वता माम!, नास्ति तद्यन्न में कृतम् ॥ २८२ ॥ जनितः पूतपापोऽहं कृतो बृहदनुग्रहः । कृपापरीतचित्तेन, पूरिता मे मनोरथाः ॥ २८३ ॥ तथापि रमणीयेऽत्र, वस्तुमिच्छामि साम्प्रतम् । दिनानि कतिचिन्माम!, लीलया जैनसत्पुरे ॥ २८४ ॥ किं च-स्थितो मासद्वयं यावत्, सद्विचारपरायणः । पुरे तथा तथा प्राज्ञो जायेऽहं त्वत्प्रसादतः ॥ २८५ ॥ अहं च परमां काठां, नेयो
For Private & Personal Use Only
चारित्रपसैन्यं
॥ ४५५ ॥
ninelibrary.org

Page Navigation
1 ... 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474