Book Title: Upmitibhava Prapancha Katha Purvarddha
Author(s): Siddharshi Gani, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 455
________________ उपमितौ च. ४-५. ॥ ४५१ ॥ Jain Education अत्यन्तस्थूलहिंसायाः कचिद्विरतिसुन्दरम् । स्थूलालीकनिवृत्तं च, करोत्येष पुरे जनम् ॥ १९३ ॥ स्थूलस्तेयनिष्टतं च परदारपराङ्मुखम् । कचित्संक्षिप्तमानं च, सकलेऽपि परिग्रहे ॥ १९४ ॥ परित्यक्तनिशाभक्तं, कृतमानं च संवरे । युक्तोपभोगसम्भोगं; कर्मानुष्ठानकारकम् ॥ १९५ ॥ अनर्थदण्डविरतं, सामायिकरतं सदा । देशावकाशिके सक्तं, पौषधे कृतनिश्चयम् ॥ १९६ ॥ अतिथेः संविभागेन, परिपूतमनोमलम् । करोत्येष जनं वत्स !, गृहिधर्मोऽत्र सत्पुरे ॥ १९७ ॥ किं च यो यावन्तं करोत्यत्र, निर्देशं शक्तितो जनः । तस्य तावत्करोत्येष, फलं नास्त्यत्र संशयः ॥ १९८ ॥ या त्वेषा बालिका वत्स !, विस्फारितवरेक्षणा । दृश्यतेऽस्यैव भार्येयं, नाम्ना सद्गुणरकता ॥ १९९ ॥ वत्सला मुनिलोकस्य, गुरूणां विनयोद्यता । भर्तरि स्नेहबद्धेयं, वत्स ! सद्गुणरक्तता ॥ २०० ॥ तदेतौ जैनलोकानां, राजपुत्रौ सभार्यकौ । विज्ञातव्यौ प्रकृत्यैव, सततानन्दकारकौ ॥ २०१ ।। अनयोश्च सदा पित्रा, विहितः परिपालकः । अयं महत्तमो वत्स !, सम्यग्दर्शननामकः ॥ २०२ ॥ अनेन रहितावेतौ, दृश्येते न कदाचन । एतौ हि वर्धयत्येष, निकटस्थोऽतिवत्सलः ॥ २०३ ॥ अन्यच्च — यानि ते कथितान्यत्र, सप्त तत्त्वानि सत्पुरे । दृढनिश्चयमेतेषु भवचक्रपराङ्मुखम् ॥ २०४ ॥ शमसंवेगनिर्वेदकृपाऽऽस्तिक्यवि- ४ नसुदृष्टी राजितम् । मैत्रीप्रमोदकारुण्यमाध्यस्थ्यैर्भावितात्मकम् ॥ २०५ ॥ सदा प्रयाणकारूढं, निर्वृतौ गमनेच्छया । करोत्येष जनं वत्स !, सम्यग्दर्शननामकः ॥ २०६ ॥ त्रिभिर्विशेषकम् । या त्वेषा दृश्यते वत्स !, शुभवर्णा मनोहरा । इयमस्यैव सद्भार्या, सुदृष्टिर्नाम विश्रुता ॥ २०७ ॥ इयं हि जैनलोकानां, सन्मार्गे वीर्यशालिनी । चित्तस्थैर्यकरी ज्ञेया, विधिना पर्युपासिता ॥ २०८ ॥ एवं च स्थिते -योऽसौ निवेदितस्तुभ्यं, कुदृष्टिसहितः पुरा । विचित्रचरितस्तात !, महामोहमहत्तमः ॥ २०९ ॥ तदाचारविरुद्धं हि सर्वमस्य विचेष्टितम् । विज्ञेयं जगदानन्दं, सुविचारितसुन्दरम् ॥ २९० ॥ स तत्रयति यत्नेन, महामोहबलं सदा । चारित्रधर्मराजस्य, बलमेष महत्तमः सम्यग्दर्श For Private & Personal Use Only सद्गुणरकता ॥ ४५१ ॥ w.jainelibrary.org

Loading...

Page Navigation
1 ... 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474