Book Title: Upmitibhava Prapancha Katha Purvarddha
Author(s): Siddharshi Gani, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 453
________________ RSS उपमिती च. ४-प्र. दशधा यतिधर्मः ॥४४९॥ लना सदा । निःसङ्गं बहिरन्तश्च, मुनीनां कुरुते मनः ॥ १५७ ॥ तपोयोग इति ख्यातः, संशुद्धः पञ्चमो नरः । युक्तो द्वादशभिर्वत्स!, स्वाङ्गिकेवरमानुषैः ॥ १५८ ॥ एतेषां च प्रभावेण, मानुषाणां नरोत्तमः । यदेष कुरुते जैने, पुरे तत्ते निवेदये ।। ११९ ।। सर्वाहारप-15 रित्यागानिःस्पृहं कुरुते जनम् । वीर्य च वर्धयत्येप, कारयन्यूनभोजनम् ॥ १६० ॥ अस्यादेशेन कुर्वन्ति, नानाऽभिग्रहसुन्दरम् । मुनयो| वृत्तिसङ्केप, शमसातविवर्धनम् ॥ १६१ ॥ तथा रसभोगं न कुर्वन्ति, मोहोद्रेकादिकारणम् । अस्यादेशान्निषेवन्ते, कायक्लेशं सुखावहम् है ।। १६२ ।। कपायेन्द्रिययोगैश्च, संलीनास्तात! साधवः । विविक्तचर्यया नित्यमासते तेन चोदिताः॥ १६३ ॥ प्रायश्चित्तं च दशधा, विनयं च चतुर्विधम् । वैयावृत्यं च कुर्वन्ति, दशधैवास्य वीर्यतः ॥ १६४॥ पञ्चप्रकारं स्वाध्याय, द्वेधा ध्यानं च सत्तमम् । सततं । कारययेष, मुनिलोकं नरोत्तमः ॥ १६५ ।। गणोपधिशरीराणामाहारस्य च निःस्पृहाः । प्राप्ते काले प्रकुर्वन्ति, त्यागमेतेन चोदिताः। ॥ १६६ ।। लेशोदेशादिदं वत्स!, तपोयोगविचेष्टितम् । वर्णितं विस्तरेणास्य, वर्णने नास्ति निष्ठितिः ॥ १६७ ।। यस्त्वयं दृश्यते वत्स!, षष्ठोऽमीषां मनोरमः । वल्लभो मुनिलोकस्य, संयमाख्यो नरोत्तमः ॥१६८॥ स सप्तदशभिर्युक्तो, मानुषैर्जिनसत्पुरे । यथा विज़म्भते | तात!, तत्ते सर्व निवेदये ।। १६९ ॥ पापासवपिधानेन, शान्तबोधनिराकुलम् । पञ्चेन्द्रियविरोधेन, संतुष्टं विगतस्पृहम् ।। १७० ॥ याकषायतापप्रशमाञ्चित्तनिर्वाणबन्धुरम् । मनोवाकाययोगाना, नियमेन मनोहरम ॥ १७१ ॥ सततं धारयत्येष, मुनिलोकं नरोत्तमः ।। संयमाह्वः स्ववीर्येण, निमग्नं धृतिसागरे ॥ १७२ ।। अथवा-इलाजलानलगतामनिलाखिलशाखिनाम् । हिंसां द्वित्रिचतुष्पश्चहषीकाणा निषधति ।। १७३ ॥ अचित्तमपि यद्वस्तु, हिंसाकरमसुन्दरम् । ग्रहणं तस्य यत्नेन, वारयत्येष संयमः॥ १७४ ।। प्रेक्षणं स्थाण्डला १ शान्ताबाधा० (प्र.) २ तेषु स्थिताना. ॥४४९॥ Jain Education a For Private & Personel Use Only W w.jainelibrary.org

Loading...

Page Navigation
1 ... 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474