Book Title: Upmitibhava Prapancha Katha Purvarddha
Author(s): Siddharshi Gani, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 402
________________ उपमितौ च. ४-अ. ॥३९८॥ STEROSSANSAR साध्वसं संजातं भयं विगलितो मदिरामदः पलायितुं प्रवृत्ता गृहीता लोलाक्षेण विमोचितोऽनवाऽऽत्मा धावन्ती पुनर्गृहीता लोलाक्षेण मद्यपदशा ततः पुनर्विमोच्यात्मानं प्रविष्टा तत्र चण्डिकायतने स्थिता चण्डिकाप्रतिमायाः पृष्ठतो भयेन कम्पमाना, अत्रान्तरे द्वेषगजेन्द्रस्य संपन्नो राजादेशः, आविर्भूतोऽसौ, दृष्टः प्रकर्षण, स प्राह-माम! स एष द्वेषगजेन्द्रः सहितो मिजडिम्मरूपैः, विमर्शेनोक्तं-वत्स! संपन्नोऽस्य नियोगावसरः, केवलमस्य विलसितमधुना विलोकयतु वत्सः, प्रकर्षेणोक्तं एवं करोमि, ततः प्रतिपनं द्वेषगजेन्द्रेण राजशासनं, अधिष्ठितो लोलाक्षः चिन्तितमनेन-मारयाम्येनां पापां रतिललितां या मां विहायेत्थं नष्टेति, गृहीतोऽनेन खङ्गः प्रविष्टश्चण्डिकायतने मदिरामदान्धतया तबुद्ध्या विदारिताऽनेन चण्डिका, नष्टा रतिललिता, बहिर्निर्गत्य तयाऽऽर्यपुत्रार्यपुत्र! त्रायस्व त्रायस्वेति कृतो हाहारवः, विबुद्धो रिपुकम्पनः सहितो लोकेन, अभिहितमनेन—प्रियतमे! कुतस्ते भयं ?, कथितमनवा लोलाक्षचेष्टितं, ततोऽधिष्ठितः सोऽपि द्वेषगजेन्द्रेण, सस्पर्ध सतिरस्कारमाहूतोऽनेन रणाय लोलाक्षः, प्रक्षुभिताः सुभटाः समुत्थितानि शेषवनपानकानि समुल्लसितः कलकल: सन्नद्धं चतुरङ्गबलं प्रादुर्भूतं गुन्दलं, ततश्चाविज्ञातव्यतिकरतया मदिरामदपरवशतया च परस्परमेव कातरनराः कातरनरैः खरैः खरा वेगसरैवेंगसरास्तुरगैस्तुरगा वरकरभैर्वरकरभा रथवरै रथवराः कुखरैः कुखरास्तदपरैर्वरकुखरैर्वरकुजरा नरवरप्रेरितैश्चर्णयितुमारब्धाः , संजातमकाण्डे बहुजनमर्दनं, इतश्च तथा रिपुकम्पनेनाहूतो लोलाक्षश्चलितस्तदभिमुखं द्वेषगजेन्द्राधिष्ठितः, मदिरामदान्धतया लग्नौ तौ करवालयुद्धेन, ततो गाढामर्षान्निपातितो रिपुकम्पनेन लोलाक्षः संजातो महाविप्लवः, तमवलोक्य प्रविष्टौ नगरे विमर्शप्रकाँ स्थिती निरा IA॥३९८॥ |बाधस्थाने, विमर्शेनोक्तं वत्स! दृष्टं द्वेषगजेन्द्रमाहात्म्यं, स प्राह-सुष्ठ दृष्टं माम! तावतां विलासानामीदृशं पर्यवसानं, विमर्शेनोक्तं 5 -भद्र! मद्यपायिनामेवंविधमेव पर्यवसानं भवति, “मदिरामत्ता हि प्राणिनः कुर्वन्त्यगम्यगमनानि न लक्षयन्ति पुरःस्थितं मारयन्ति Jain Education a l For Private & Personal Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474