Book Title: Upmitibhava Prapancha Katha Purvarddha
Author(s): Siddharshi Gani, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 425
________________ उपमितौ च. ४- प्र. ॥ ४२१ ॥ उ. भ. ३६ Jain Education यदि त्वया । पुराणि विदितं वत्स ! भवचक्रं ततोऽधुना ॥ ११९ ॥ अत्रान्तरे - आकर्ण्य मातुलीयां तां, भारतीं भगिनीसुतः । अदादादरतो दृष्टिं भवचक्रे समन्ततः ॥ १२० ॥ ततो निःशेषतो वीक्ष्य, तारविस्फारितेक्षणः । त्वरयोद्विग्नचेतस्को, निजगाद ससंभ्रमः ॥ १२१ ॥ कथम् ? हा हा हा माम! दृश्यन्ते, कष्टाः सप्त महेलिकाः । असूर्या नगरेऽमुष्मिन् दारुणाकारधारिकाः ॥ १२२ ॥ आक्रान्ताशेषधामानः, कृष्णा बीभत्सदर्शनाः । वेताल्य इव नाम्नाऽपि, लोककम्पविधायिकाः ॥ १२३ ॥ एताः काः किंप्रयुक्ता वा, किंवीर्याः किंपरिच्छदाः । चेष्टन्ते कस्य बाधायै ?, तथैवंकृतनिश्चयाः ॥ १२४ ॥ इदं मे सर्वमाख्यातं यावदद्यापि नो त्वया । तावत्प्रतारणं मन्ये, भवचक्रस्य वर्णनम् ॥१२५॥ अतः समस्तं मामोऽदो, मह्यमाख्यातुमर्हति । विमर्शेनोदितं – वत्स !, निबोध त्वं निवेद्यते ॥ १२६ ॥ जरा रुजा मृतिश्चेति, खलता च कुरूपता । दरिद्रता दुर्भगता, नामतोऽमूः प्रकीर्तिताः ॥ १२७ ॥ तत्र - सा कालपरिणत्याख्या, भार्या या मूलभूपतेः । तया प्रयोजिता तावज्जरेयं भुवनोदरे ॥ १२८ ॥ बाह्यान्यपि निमित्तानि, वर्णयन्तीह केचन । अस्याः प्रयोजकानीति, लवणाद्यानि मानवाः ।। १२९ ॥ वीर्य पुनरदोऽमुष्या, यदाश्लेषेण देहिनाम् । हरत्यशेषसद्वर्णलावण्यं बलशालिनाम् ॥ १३० ॥ गाढाश्लेषात्पुनर्वत्स !, विपरीतमनस्कताम् । कुरुते शोच्यतां लोके, देहिनां वीर्यशालिनाम् ॥ १३१ ॥ वली पलितखालित्यपिप्लुव्यङ्गकुवर्णताः । कम्पकर्कशिकाशोकमोहशैथिल्यदीनताः ॥ १३२ ॥ गतिभङ्गान्ध्यबाधिर्यदन्तवैकल्यरीणताः । जरापरिकरः प्रौढो, वायुरत्र बलाम्रणीः ॥ १३३ ॥ अनेन परिवारेण, परिवारितविग्रहा । जरेयं विलसत्यत्र, मत्तावद्गन्धहस्तिनी ॥ १३४ ॥ अधुना यस्य बाधायै, चेष्टते कृतनिश्चया । जरेयमेव तं वत्स !, विपक्षं ते निवेदये ॥ १३५ ॥ तस्या एव महादेव्या, विद्यतेऽनुचरः परः । यौवनाख्यो महावीर्यश्च श्वदुद्दामपौरुषः ॥ १३६ ॥ स च योगी तदादेशात्प्रविश्याङ्गेषु देहिनाम् । तनोति बलमौर्जित्यं, बन्धुराकारधारितां ॥ १३७ ॥ किं च - विलासहा For Private & Personal Use Only जरास्वरूपं ॥ ४२१ ॥ w.jainelibrary.org

Loading...

Page Navigation
1 ... 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474