________________
उपमितौ
च. ४- प्र.
॥ ४२१ ॥
उ. भ. ३६ Jain Education
यदि त्वया । पुराणि विदितं वत्स ! भवचक्रं ततोऽधुना ॥ ११९ ॥ अत्रान्तरे - आकर्ण्य मातुलीयां तां, भारतीं भगिनीसुतः । अदादादरतो दृष्टिं भवचक्रे समन्ततः ॥ १२० ॥ ततो निःशेषतो वीक्ष्य, तारविस्फारितेक्षणः । त्वरयोद्विग्नचेतस्को, निजगाद ससंभ्रमः ॥ १२१ ॥ कथम् ? हा हा हा माम! दृश्यन्ते, कष्टाः सप्त महेलिकाः । असूर्या नगरेऽमुष्मिन् दारुणाकारधारिकाः ॥ १२२ ॥ आक्रान्ताशेषधामानः, कृष्णा बीभत्सदर्शनाः । वेताल्य इव नाम्नाऽपि, लोककम्पविधायिकाः ॥ १२३ ॥ एताः काः किंप्रयुक्ता वा, किंवीर्याः किंपरिच्छदाः । चेष्टन्ते कस्य बाधायै ?, तथैवंकृतनिश्चयाः ॥ १२४ ॥ इदं मे सर्वमाख्यातं यावदद्यापि नो त्वया । तावत्प्रतारणं मन्ये, भवचक्रस्य वर्णनम् ॥१२५॥ अतः समस्तं मामोऽदो, मह्यमाख्यातुमर्हति । विमर्शेनोदितं – वत्स !, निबोध त्वं निवेद्यते ॥ १२६ ॥ जरा रुजा मृतिश्चेति, खलता च कुरूपता । दरिद्रता दुर्भगता, नामतोऽमूः प्रकीर्तिताः ॥ १२७ ॥ तत्र - सा कालपरिणत्याख्या, भार्या या मूलभूपतेः । तया प्रयोजिता तावज्जरेयं भुवनोदरे ॥ १२८ ॥ बाह्यान्यपि निमित्तानि, वर्णयन्तीह केचन । अस्याः प्रयोजकानीति, लवणाद्यानि मानवाः ।। १२९ ॥ वीर्य पुनरदोऽमुष्या, यदाश्लेषेण देहिनाम् । हरत्यशेषसद्वर्णलावण्यं बलशालिनाम् ॥ १३० ॥ गाढाश्लेषात्पुनर्वत्स !, विपरीतमनस्कताम् । कुरुते शोच्यतां लोके, देहिनां वीर्यशालिनाम् ॥ १३१ ॥ वली पलितखालित्यपिप्लुव्यङ्गकुवर्णताः । कम्पकर्कशिकाशोकमोहशैथिल्यदीनताः ॥ १३२ ॥ गतिभङ्गान्ध्यबाधिर्यदन्तवैकल्यरीणताः । जरापरिकरः प्रौढो, वायुरत्र बलाम्रणीः ॥ १३३ ॥ अनेन परिवारेण, परिवारितविग्रहा । जरेयं विलसत्यत्र, मत्तावद्गन्धहस्तिनी ॥ १३४ ॥ अधुना यस्य बाधायै, चेष्टते कृतनिश्चया । जरेयमेव तं वत्स !, विपक्षं ते निवेदये ॥ १३५ ॥ तस्या एव महादेव्या, विद्यतेऽनुचरः परः । यौवनाख्यो महावीर्यश्च श्वदुद्दामपौरुषः ॥ १३६ ॥ स च योगी तदादेशात्प्रविश्याङ्गेषु देहिनाम् । तनोति बलमौर्जित्यं, बन्धुराकारधारितां ॥ १३७ ॥ किं च - विलासहा
For Private & Personal Use Only
जरास्वरूपं
॥ ४२१ ॥
w.jainelibrary.org