SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ उपमितौ च. ४-प्र. ॥४२२॥ रुजास्वरूपं सबिब्बोकविपर्यासपराक्रमैः । वलानोत्प्लवनोल्लासलासधावनसम्मदैः ॥ १३८ ॥ गर्वशौण्डीर्यखिङ्गत्वसाहसादिभिरुद्धतैः । युतः पदातिभिलॊकैलीलया स विज़म्भते ॥१३९॥ तत्सम्बन्धादमी भोगसम्भोगसुखनिर्भरम् । आत्मानं मन्वते लोका, भवचक्रनिवासिनः ॥१४॥ ततस्तं निजवीर्येण, यौवनाख्यमियं जरा । मृद्गाति सपरीवारं, क्रुद्धा कृत्येव साधकम् ॥ १४१॥ ततस्ते जरसा वत्स!, जना मतियौवनाः । परीता दुःखकोटीभिर्जायन्ते दीनविक्लवाः ॥ १४२ ॥ स्वभार्ययाऽप्यवज्ञाताः, परिवारावधीरिताः । उपास्यमानाः स्वापत्यैस्तरुणीमिस्तिरस्कृताः ॥ १४३ ॥ स्मरन्तः पूर्वभुक्तानि, कासमाना मुहुर्मुहुः । श्लेष्माणमुगिरन्तश्च, लुठन्तो जीर्णमञ्चके ॥ १४४ ॥ परतप्तिपराः प्रायः, क्रुध्यन्तश्च पदे पदे । आक्रान्ता जरया वत्स!, केवलं शेरते जनाः ॥ १४५ ॥ युग्मम् । एषा जरा समासेन, लोकपीडनतत्परा । वर्णिता तेऽधुना वक्ष्ये, रुजां वैवखतीं मुजाम् ॥ १४६ ॥ यो वेदनीयनृपतेरसाताख्यो वयस्यकः । वर्णितस्तत्प्रयुक्तेयं, रुजा तेन दुरात्मना ॥ १४७ ॥ वर्णयन्ति निमित्तानि, बहिर्भूतानि सूरयः । अस्याः प्रयोजकान्युच्चै नाकाराणि शास्त्रतः॥ १४८॥ धीधृतिस्मृतिविभ्रंशः, सम्प्राप्तिः कालकर्मणाम् । असात्म्यार्थागमश्चेति, रुजाहेतुरयं गणः ॥ १४९ ॥ वातपित्तकफानां च, यद्यत्संक्षोभकारणम् । रजस्तमस्करं चेति, तत्तदस्याः प्रयोजकम् ॥ १५० ॥ किं तु बाह्यान्यपि निमित्तानि, स एव परमार्थतः । असाताख्यः प्रयुते|ऽतः, स एव परकारणम् ।। १५१ ॥ प्रविष्टेयं शरीरेषु, योगित्वेन शरीरिणाम् । स्वास्थ्यं निहत्य वीर्येण, करोत्यातुरतां पराम् ।। १५२॥ ज्वरातिसारकुष्ठार्शःप्रमेहप्लीहधूमकाः । अम्लकग्रहणीशूलहिकाश्वासक्षयभ्रमाः ।। १५३ ॥ गुल्महृद्रोगसंमोहल्लासानाहकम्पकाः । कण्डूकोष्ठारुचीशोफभगन्दरगलामयाः ।। १५४ ॥ पामाजलोदरोन्मादशोषवीसर्पछर्दयः । नेत्ररोगशिरोरोगविद्रधिप्रमुखा भटाः॥ १५५ ॥ सर्वेऽप्यस्याः परीवारः, स्वात्मभूतो महाबलः । यत्प्रभावादियं वत्स!, रुजा जेतुं न पार्यते ॥ १५६ ॥ चतुर्भिः कलापकम् । अस्ति ॥४२२॥ BREAK Jain Education a l For Private & Personel Use Only jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy