________________
उपमितौ च. ४-प्र.
॥४२२॥
रुजास्वरूपं
सबिब्बोकविपर्यासपराक्रमैः । वलानोत्प्लवनोल्लासलासधावनसम्मदैः ॥ १३८ ॥ गर्वशौण्डीर्यखिङ्गत्वसाहसादिभिरुद्धतैः । युतः पदातिभिलॊकैलीलया स विज़म्भते ॥१३९॥ तत्सम्बन्धादमी भोगसम्भोगसुखनिर्भरम् । आत्मानं मन्वते लोका, भवचक्रनिवासिनः ॥१४॥ ततस्तं निजवीर्येण, यौवनाख्यमियं जरा । मृद्गाति सपरीवारं, क्रुद्धा कृत्येव साधकम् ॥ १४१॥ ततस्ते जरसा वत्स!, जना मतियौवनाः । परीता दुःखकोटीभिर्जायन्ते दीनविक्लवाः ॥ १४२ ॥ स्वभार्ययाऽप्यवज्ञाताः, परिवारावधीरिताः । उपास्यमानाः स्वापत्यैस्तरुणीमिस्तिरस्कृताः ॥ १४३ ॥ स्मरन्तः पूर्वभुक्तानि, कासमाना मुहुर्मुहुः । श्लेष्माणमुगिरन्तश्च, लुठन्तो जीर्णमञ्चके ॥ १४४ ॥ परतप्तिपराः प्रायः, क्रुध्यन्तश्च पदे पदे । आक्रान्ता जरया वत्स!, केवलं शेरते जनाः ॥ १४५ ॥ युग्मम् । एषा जरा समासेन, लोकपीडनतत्परा । वर्णिता तेऽधुना वक्ष्ये, रुजां वैवखतीं मुजाम् ॥ १४६ ॥ यो वेदनीयनृपतेरसाताख्यो वयस्यकः । वर्णितस्तत्प्रयुक्तेयं, रुजा तेन दुरात्मना ॥ १४७ ॥ वर्णयन्ति निमित्तानि, बहिर्भूतानि सूरयः । अस्याः प्रयोजकान्युच्चै नाकाराणि शास्त्रतः॥ १४८॥ धीधृतिस्मृतिविभ्रंशः, सम्प्राप्तिः कालकर्मणाम् । असात्म्यार्थागमश्चेति, रुजाहेतुरयं गणः ॥ १४९ ॥ वातपित्तकफानां च, यद्यत्संक्षोभकारणम् । रजस्तमस्करं चेति, तत्तदस्याः प्रयोजकम् ॥ १५० ॥ किं तु बाह्यान्यपि निमित्तानि, स एव परमार्थतः । असाताख्यः प्रयुते|ऽतः, स एव परकारणम् ।। १५१ ॥ प्रविष्टेयं शरीरेषु, योगित्वेन शरीरिणाम् । स्वास्थ्यं निहत्य वीर्येण, करोत्यातुरतां पराम् ।। १५२॥ ज्वरातिसारकुष्ठार्शःप्रमेहप्लीहधूमकाः । अम्लकग्रहणीशूलहिकाश्वासक्षयभ्रमाः ।। १५३ ॥ गुल्महृद्रोगसंमोहल्लासानाहकम्पकाः । कण्डूकोष्ठारुचीशोफभगन्दरगलामयाः ।। १५४ ॥ पामाजलोदरोन्मादशोषवीसर्पछर्दयः । नेत्ररोगशिरोरोगविद्रधिप्रमुखा भटाः॥ १५५ ॥ सर्वेऽप्यस्याः परीवारः, स्वात्मभूतो महाबलः । यत्प्रभावादियं वत्स!, रुजा जेतुं न पार्यते ॥ १५६ ॥ चतुर्भिः कलापकम् । अस्ति
॥४२२॥
BREAK
Jain Education
a
l
For Private & Personel Use Only
jainelibrary.org