SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ उपमितौ च. ४-अ. NAAG कवर्णन ॥४२०॥ कथ्यमानं निबोध मे ॥१००॥"बुभुक्षारतिसन्तापपिपासावेदनातुराः । दाहशोकभयोद्वेगबन्धताडनपीडिताः ॥१०१॥ सततं दुःखिता "लोका, धार्यन्तेऽत्र पुरेऽखिलाः । महामोहादिभिर्वत्स!, दीनाः शरणवर्जिताः॥ १०२ ॥ धर्माधर्मविवेकेन, विकलाः कलुषात्मकाः। "तिष्टन्त्यनन्तजातीयाः, पुरेऽत्र पुरुषाः किल ॥ १०३॥” तदिदं पशुसंस्थानं, वर्णितं ते महापुरम् । इदानीं वर्ण्यते वत्स!, तदिदं पापिपरम् ॥ १०४ ॥ येऽत्र लोका महापापप्राग्भारभरपूरिताः । वसन्ति तेषां दुःखस्य, नास्ति विच्छेदसम्भवः ॥ १०५ ॥ योऽसौ ते वेदनीयाख्यनृपतेः पुरुषो मया । असातनामकः पूर्व, वर्णितस्तत्र मण्डपे ॥ १०६ ।। तस्येदं भो! महामोहराजेन निखिलं पुरम् । कचित्तोषितचित्तेन, भटभुक्त्या समर्पितम् ॥ १०७ ॥ ततस्तेन पुरे सर्वे, परमाधार्मिनामकैः । अत्र लोकाः कर्थ्यन्ते, पुरुषैः स्वनियोजितैः ॥ १०८ ॥ कथम् ?-"पाय्यन्ते तप्तताम्राणि, नीयन्ते क्षतचूर्णताम् । खाद्यन्ते निजमांसानि, दह्यन्ते तीब्रवहिना ॥ १०९ ॥ "शाल्मलीरभिरोधन्ते, वनकण्टकसंकुलाः । तार्यन्ते क्लेदबहुलां, वत्स! वैतरणी नदीम् ॥ ११०॥ छिद्यन्ते करुणाहीनैरसिपत्रवनेरितैः । | "कुन्ततोमरनाराचकरवालगदाशतैः ॥ १११ ॥ पच्यन्ते कुम्भपाकेन, पाट्यन्ते क्रकचादिभिः । कलम्बवालुकापृष्ठे, भ्रज्यन्ते चणका इव “॥ ११२ ॥ अन्यच्च-पाटकाः सन्ति सप्तात्र, तत्राद्ये पाटकत्रये । परमाधार्मिकरित्थं, जन्यते दुःखपद्धतिः ॥ ११३ ॥ परस्परं च "कुर्वन्ति, दुःखमेते निरन्तरम् । षट्सु पाटेषु भिद्यन्ते, सप्तमे वनकण्टकैः ॥ ११४ ॥ किं च-बुभुक्षया कदर्थ्यन्ते, प्रपीड्यन्ते पि"पासया । काष्ठीभवन्ति शीतेन, वेदनावेगविह्वलाः ॥ ११५ ॥ क्षणेन द्रवतां यान्ति, क्षणेन स्थिररूपताम् । क्षणेन च विलीयन्ते, गृहन्ति च शरीरकम् ॥ ११६ ॥" न शक्तः कोटिजिह्वोऽपि, दुःखं वर्णयितुं जनः । वसतामत्र लोकानां, यादृशं पापिपश्चरे ।। ११७ ॥ एकान्तदुःखगर्भार्थ, तदिदं पापिपचरम् । कथितं ते समासेन, पुरं वत्स! मयाऽधुना ॥ ११८ ॥ तस्मादेतानि चत्वारि, विज्ञातानि ॥४२०॥ Jain Education in For Private & Personel Use Only N ainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy