SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ उपमितौ गतिचतुकवर्णन च. ४-प्र. ॥४१९॥ "दिदं मानवावासं, किञ्चिल्लेशेन वर्णितम् । अधुना कथ्यते तुभ्यं, सत्पुरं विबुधालयम् ॥ ८३ ॥"नाकरूपमिदं ज्ञेयं, सत्पुरं विबुधाल"यम् । सत्पारिजातमन्दारसन्तानकवनाकुलम् ॥ ८४ ॥ उल्लसद्भिश्च गन्धाढ्यैर्नमेरुहरिचन्दनैः । सदा विकसितै रम्यं, कहारकमलाकरैः ॥ ८५ ॥ पद्मरागमहानीलवनवैडूर्यराशिभिः । दिव्यहाटकसम्मिघटितानेकपाटकम् ।। ८६ ॥ प्रेजन्मणिप्रभाजालैः, सदा निर्नष्टता-1 "मसम् । विचित्ररत्नसङ्घातमयूखैः प्रविराजितम् ।। ८५ ॥ दिव्यभूषणसद्गन्धमाल्यसंभोगलालितम् । नित्यप्रमोदमुद्दामगीतनृत्यमनोहरम् ॥८६॥ नित्यं प्रमुदितैर्दिव्यैस्तेजोनिर्जितभास्करैः । लसत्कुण्डलकेयूरमौलिहारविराजितैः ॥ ८७॥ कलालिकुलझङ्कारहारिमन्दारदामभिः । "अम्लानवनमालाभिनित्यमामोदिताशयैः ।। ८८ ॥ रतिसागरमध्यस्थैः, प्रीणितेन्द्रियसुस्थितैः । सदेदमीशैलोकैः, पूरितं विबुधालयम्" ॥८९॥ षड्भिः कुलकम् । यः पूर्व वेदनीयाख्यनृपतेः पुरुषो मया। साताभिधानस्ते भद्र !, कथितस्तत्र मण्डपे॥९०॥ स कर्मपरिणामेन, जनाहादविधायकः । विहितो निखिलस्यास्य, पुरस्य वरनायकः॥ ९१॥ युग्मम् । ततस्तेन लसद्भोगं, सतताहादसुन्दरम् । इदं हि वत्स! निःशेष, धार्यते विबुधालयम् ॥ ९२॥ प्रकर्षेणोदितं माम!, महामोहादिभूभुजाम् । किमत्र प्रसरो नास्ति ?, येनेदमतिसुन्दरम् ॥ ९३ ॥ विमर्शः प्राह मा मैवं, मन्येथास्त्वं कथञ्चन । प्रभवन्ति प्रकर्षेण, यतोऽत्रान्तरभूभुजः ।। ९४ ।। ईर्ष्याशोकभयक्रोधलोभमोहमदभ्रमैः । सतताकुलितं वत्स!, पुरं हि विबुधालयम् ॥ ९५ ॥ प्रकर्षः प्राह यद्येवं, ततोऽत्र ननु किं सुखम् ? । किं वेदं हृष्टचित्तेन, भवता चारु वर्णितम् ? ॥ ९६ ॥ ततस्तेनोदितं वत्स!, न सुखं परमार्थतः । नाप्यत्र सुन्दरं किञ्चित्तत्त्वतो विबुधालये ।। ९७ ॥ केवलं मुग्धबुद्धीनां, विषयामिषवाञ्छिनाम् । अत्रास्था महती वत्स!, मयेदं तेन वर्णितम् ॥ ९८ ॥ इतरथा-महामोहनरेन्द्रस्य, परिवारसमायुजः । क राज्यं ? क च लोकानां, सुखवार्तेति दुर्घटम् ॥ ९९ ॥ तदिदं ते समासेन, कथितं विबुधालयम् । अधुना पशुसंस्थानं, ॥ ४१९॥ Jain Education inline For Private & Personel Use Only A ainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy