SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ उपमितौ च. ४-प्र. ॥४१८॥ पत. | केवलं शुभचेष्टितम् ।। ६३ ॥ यतः-दुःखानि पापमूलानि, पापं च शुभचेष्टितैः । सर्व प्रलीयते वत्स!, ततो दुःखोद्भवः कुतः ? ॥६४॥प्रकर्षः प्राह यद्येवं, ततः सुन्दरचेष्टिते । वरमेभिः कृतो यत्नो, न विषादस्य शासने ॥६५॥ विमर्शनाभिहितम्-चारु चारूदितं वत्स!, केवलं मूढजन्तवः । इदमेते न जानन्ति, भवचक्रनिवासिनः ॥ ६६ ॥ अन्यच्चान-कियन्ति संविधानानि, शृङ्गग्राहिकया 51 तव । मया निवेदयिष्यन्ते, नगरे पारवर्जिते ? ॥ ६७ ॥ इतश्च-अस्य स्वरूपविज्ञाने, बलवत्ते कुतूहलम् । अतः समासतो वत्स!, तुभ्यमेतन्निवेदये ॥ ६८ ॥ आरूढः पर्वते तात!, विवेकाख्येऽत्र निर्मले । इदं विलोकयत्येवं, रूपतः किं निवेद्यताम् ॥ ६९॥ गुणतश्च पुनर्वत्स!, वर्ण्यमानं मया स्फुटम् । इदं यथावबुध्यस्ख, भवचक्रं महापुरम् ।। ७० ।। अवान्तरपुरैर्वत्स!, भूरिभिः परिपूरितम् । यद्यपीदं तथाप्यत्र, श्रेष्ठं पुरचतुष्टयम् ॥७१॥ एकं हि मानवावासं, द्वितीयं विबुधालयम् । तृतीयं पशुसंस्थानं, चतुर्थ पापिपञ्जरम् ॥७२॥ एतानि तानि चत्वारि, प्रधानानीह पत्तने । पुराणि व्यापकानीति, सर्वेषां मध्यवर्तिनाम् ।। ७३ ॥ तत्रेदं मानवावासं, महामोहादिभिः सदा । अन्तरङ्गजनैाप्तमेतैः कलकलाकुलम् ॥७४॥ कथम् ?-"क्वचिदिष्टजनप्राप्तौ, तोषनिर्भरमानुषम् । कचिद्वेष्यजनासत्तेर्विमनीभूत-18 "दुर्जनम् ।। ७५ ॥ कचिद्धनलवावाप्तिजनितानन्दसुन्दरम् । कचिद्रविणनाशोत्थबृहत्सन्तापतापितम् ॥ ७६ ॥ क्वचिहुर्लभसत्सूनुजन्मो|"मृतमहोत्सवम् । कचिदत्यन्तचित्तेष्टमरणाक्रन्दगुन्दलम् ॥ ७७ ॥ कचित्सुभटसङ्घातप्रारब्धरणभीषणम् । कचिन्मिलितसन्मित्रविमुक्तनय"नोदकम् ।। ७८ ॥ क्वचिद्दारिद्र्यदौर्भाग्यविविधव्याधिपीडितम् । कचिच्छब्दादिसंभोगादलीकसुखनिर्भरम् ॥ ७९ ॥ कचित्सन्मार्गदूरस्थ-15 पापिष्ठजनपूरितम् । कचिच्च धर्मबुद्ध्यापि, विपरीतविचेष्टितम् ॥ ८० ॥ किं चेह बहुनोक्तेन ?, चरितानि पुरा मया । यावन्ति वर्णिता- ॥४१८॥ "न्युचैर्महामोहादिभूभुजाम् ॥ ८१ ॥ तावन्ति वत्स! दृश्यन्ते, सर्वाण्यत्र विशेषतः । सततं मानवावासे, कारणैरपरापरैः ।। ८२ ॥” त Jain Educatio n al For Private & Personel Use Only ww.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy