SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ उपमितौ च. ४-प्र. ॥४१८॥ पत. | केवलं शुभचेष्टितम् ।। ६३ ॥ यतः-दुःखानि पापमूलानि, पापं च शुभचेष्टितैः । सर्व प्रलीयते वत्स!, ततो दुःखोद्भवः कुतः ? ॥६४॥प्रकर्षः प्राह यद्येवं, ततः सुन्दरचेष्टिते । वरमेभिः कृतो यत्नो, न विषादस्य शासने ॥६५॥ विमर्शनाभिहितम्-चारु चारूदितं वत्स!, केवलं मूढजन्तवः । इदमेते न जानन्ति, भवचक्रनिवासिनः ॥ ६६ ॥ अन्यच्चान-कियन्ति संविधानानि, शृङ्गग्राहिकया 51 तव । मया निवेदयिष्यन्ते, नगरे पारवर्जिते ? ॥ ६७ ॥ इतश्च-अस्य स्वरूपविज्ञाने, बलवत्ते कुतूहलम् । अतः समासतो वत्स!, तुभ्यमेतन्निवेदये ॥ ६८ ॥ आरूढः पर्वते तात!, विवेकाख्येऽत्र निर्मले । इदं विलोकयत्येवं, रूपतः किं निवेद्यताम् ॥ ६९॥ गुणतश्च पुनर्वत्स!, वर्ण्यमानं मया स्फुटम् । इदं यथावबुध्यस्ख, भवचक्रं महापुरम् ।। ७० ।। अवान्तरपुरैर्वत्स!, भूरिभिः परिपूरितम् । यद्यपीदं तथाप्यत्र, श्रेष्ठं पुरचतुष्टयम् ॥७१॥ एकं हि मानवावासं, द्वितीयं विबुधालयम् । तृतीयं पशुसंस्थानं, चतुर्थ पापिपञ्जरम् ॥७२॥ एतानि तानि चत्वारि, प्रधानानीह पत्तने । पुराणि व्यापकानीति, सर्वेषां मध्यवर्तिनाम् ।। ७३ ॥ तत्रेदं मानवावासं, महामोहादिभिः सदा । अन्तरङ्गजनैाप्तमेतैः कलकलाकुलम् ॥७४॥ कथम् ?-"क्वचिदिष्टजनप्राप्तौ, तोषनिर्भरमानुषम् । कचिद्वेष्यजनासत्तेर्विमनीभूत-18 "दुर्जनम् ।। ७५ ॥ कचिद्धनलवावाप्तिजनितानन्दसुन्दरम् । कचिद्रविणनाशोत्थबृहत्सन्तापतापितम् ॥ ७६ ॥ क्वचिहुर्लभसत्सूनुजन्मो|"मृतमहोत्सवम् । कचिदत्यन्तचित्तेष्टमरणाक्रन्दगुन्दलम् ॥ ७७ ॥ कचित्सुभटसङ्घातप्रारब्धरणभीषणम् । कचिन्मिलितसन्मित्रविमुक्तनय"नोदकम् ।। ७८ ॥ क्वचिद्दारिद्र्यदौर्भाग्यविविधव्याधिपीडितम् । कचिच्छब्दादिसंभोगादलीकसुखनिर्भरम् ॥ ७९ ॥ कचित्सन्मार्गदूरस्थ-15 पापिष्ठजनपूरितम् । कचिच्च धर्मबुद्ध्यापि, विपरीतविचेष्टितम् ॥ ८० ॥ किं चेह बहुनोक्तेन ?, चरितानि पुरा मया । यावन्ति वर्णिता- ॥४१८॥ "न्युचैर्महामोहादिभूभुजाम् ॥ ८१ ॥ तावन्ति वत्स! दृश्यन्ते, सर्वाण्यत्र विशेषतः । सततं मानवावासे, कारणैरपरापरैः ।। ८२ ॥” त Jain Educatio n al For Private & Personel Use Only ww.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy