Book Title: Upmitibhava Prapancha Katha Purvarddha
Author(s): Siddharshi Gani,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
उपमितौ
च. ४-प्र. ॥ ४४१ ॥
Jain Educatio
र्वतः । आधाराधेयसम्बन्धस्तेनैवं परिकीर्तितः ॥ २० ॥ प्रकर्षेणोदितं -माम ! यद्येवं ततो यदिदमस्य पर्वतस्याधारभूतं सात्त्विकमानसं पुरं ये च तत्सेविनो बहिरङ्गलोकाः यश्चायं विवेकमहागिरिः यच्चेदमप्रमत्तशिखरं यच्चादो जैनं पुरं ये चात्र स्थिता बहिरङ्ग - | जनाः यश्चायं चित्तसमाधानमहामण्डपो या चेयं वेदिका यचेदं सिंहासनं यश्चायं नरेन्द्रो यश्चायमस्य परिवारः तदिदं सर्व मम जन्मापूर्वं ततो ममानुग्रहधिया प्रत्येकं विशेषतस्तद्वर्णयितुमर्हति मामः, विमर्शेनोकं - वत्स ! यद्येषं ततः समाकर्णय - यदिदं पर्वता - धारं पुरं सात्त्विकमानसम् । तदन्तरङ्गरत्नानां सर्वेषामाकरो मतम् ॥ २१ ॥ अनेकदोषपूर्णेऽपि भवचक्रे व्यवस्थितम् । नेदं स्वरूपतो वत्स !, दोषसंश्लेषभाजनम् || २२ || अधन्या भवचक्रेऽत्र, वर्तमाना मनुष्यकाः । इदं स्वरूपतो वत्स !, न पश्यन्ति कदाचन ॥ २३ ॥ यानि निर्मलचित्तादिपुराण्यन्तरभूमिषु । अत्रैव प्रतिबद्धानि तानि जानीहि भावतः ॥ २४ ॥ स कर्मपरिणामाख्यो, राजा नेदं महापुरम् । सभुक्तिकं ददात्येकं, महामोहादिभूभुजाम् ॥ २५ ॥ किं तर्हि ?, स्वयमेव भुनक्तीदं, तथाऽन्यैर्वरभूमिपैः । शुभाशयादिभिर्वत्स !, भोजयेच्च सभुक्तिकम् ॥ २६ ॥ इदं हि जगतः सारमिदं च निरुपद्रवम् । इदमेव कृताह्लादं, बहिर्जनमनोहरम् ॥ २७ ॥ तदिदं ते समासेन, पुरं सात्त्विकमानसम् । निवेदितं मया वत्स !, शृणु चात्राधुना जनम् ।। २८ ।। ये लोका निवसन्त्यत्र, पुरे सात्त्विकमानसे । बहिरङ्गा भवन्त्येषां, शौर्यवीर्यादयो गुणाः ॥ २९ ॥ बहिरङ्गा जनास्ते हि, निवसन्त्यत्र सत्पुरे । पुरमाहात्म्यमान्त्रेण, गच्छन्ति विबुधालये ॥ ३० ॥ अन्यच्च वसतामत्र, पुरे सात्त्विकमानसे । प्रत्यासन्नतया याति, विवेको दृष्टिगोचरे ॥ ३१ ॥ ततश्च — यद्यारोहन्त्यमुं लोका, विवेकवरपर्वतम् । ततो जैनं समासाद्य, पुरं यान्ति सुखास्पदम् ॥ ३२ ॥ एवं च स्थिते – पुरप्रभावमात्रेण, सदैते सुन्दरा जना: । विवेकशिखरारूढाः पुनः स्युरतिसुन्दराः ॥ ३३ ॥ किं च अन्येषां पापिनां वत्स !, भवचक्रनिवासिनाम् । सदा न प्रति
onal
For Private & Personal Use Only
सात्त्विकपुरव०
॥ ४४१ ॥
www.jainelibrary.org

Page Navigation
1 ... 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474