SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ उपमितौ च. ४-प्र. ॥ ४४१ ॥ Jain Educatio र्वतः । आधाराधेयसम्बन्धस्तेनैवं परिकीर्तितः ॥ २० ॥ प्रकर्षेणोदितं -माम ! यद्येवं ततो यदिदमस्य पर्वतस्याधारभूतं सात्त्विकमानसं पुरं ये च तत्सेविनो बहिरङ्गलोकाः यश्चायं विवेकमहागिरिः यच्चेदमप्रमत्तशिखरं यच्चादो जैनं पुरं ये चात्र स्थिता बहिरङ्ग - | जनाः यश्चायं चित्तसमाधानमहामण्डपो या चेयं वेदिका यचेदं सिंहासनं यश्चायं नरेन्द्रो यश्चायमस्य परिवारः तदिदं सर्व मम जन्मापूर्वं ततो ममानुग्रहधिया प्रत्येकं विशेषतस्तद्वर्णयितुमर्हति मामः, विमर्शेनोकं - वत्स ! यद्येषं ततः समाकर्णय - यदिदं पर्वता - धारं पुरं सात्त्विकमानसम् । तदन्तरङ्गरत्नानां सर्वेषामाकरो मतम् ॥ २१ ॥ अनेकदोषपूर्णेऽपि भवचक्रे व्यवस्थितम् । नेदं स्वरूपतो वत्स !, दोषसंश्लेषभाजनम् || २२ || अधन्या भवचक्रेऽत्र, वर्तमाना मनुष्यकाः । इदं स्वरूपतो वत्स !, न पश्यन्ति कदाचन ॥ २३ ॥ यानि निर्मलचित्तादिपुराण्यन्तरभूमिषु । अत्रैव प्रतिबद्धानि तानि जानीहि भावतः ॥ २४ ॥ स कर्मपरिणामाख्यो, राजा नेदं महापुरम् । सभुक्तिकं ददात्येकं, महामोहादिभूभुजाम् ॥ २५ ॥ किं तर्हि ?, स्वयमेव भुनक्तीदं, तथाऽन्यैर्वरभूमिपैः । शुभाशयादिभिर्वत्स !, भोजयेच्च सभुक्तिकम् ॥ २६ ॥ इदं हि जगतः सारमिदं च निरुपद्रवम् । इदमेव कृताह्लादं, बहिर्जनमनोहरम् ॥ २७ ॥ तदिदं ते समासेन, पुरं सात्त्विकमानसम् । निवेदितं मया वत्स !, शृणु चात्राधुना जनम् ।। २८ ।। ये लोका निवसन्त्यत्र, पुरे सात्त्विकमानसे । बहिरङ्गा भवन्त्येषां, शौर्यवीर्यादयो गुणाः ॥ २९ ॥ बहिरङ्गा जनास्ते हि, निवसन्त्यत्र सत्पुरे । पुरमाहात्म्यमान्त्रेण, गच्छन्ति विबुधालये ॥ ३० ॥ अन्यच्च वसतामत्र, पुरे सात्त्विकमानसे । प्रत्यासन्नतया याति, विवेको दृष्टिगोचरे ॥ ३१ ॥ ततश्च — यद्यारोहन्त्यमुं लोका, विवेकवरपर्वतम् । ततो जैनं समासाद्य, पुरं यान्ति सुखास्पदम् ॥ ३२ ॥ एवं च स्थिते – पुरप्रभावमात्रेण, सदैते सुन्दरा जना: । विवेकशिखरारूढाः पुनः स्युरतिसुन्दराः ॥ ३३ ॥ किं च अन्येषां पापिनां वत्स !, भवचक्रनिवासिनाम् । सदा न प्रति onal For Private & Personal Use Only सात्त्विकपुरव० ॥ ४४१ ॥ www.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy