________________
उपमिती च. ४-अ.
विवेकशिखरवर्णनं
॥४४२॥
SISSEASTUSSURSS
भातीदं, जनानां जैनसत्पुरम् ॥ ३४ ॥ निवसन्ति पुनर्येऽत्र, पुरे सात्विकमानसे । बहिरङ्गजनास्तेषां, भातीदं जैनसत्पुरम् ॥ ३५ ॥ तदमी भाविकल्याणा, लोका मार्गानुयायिनः । वास्तव्यकाः पुरे येऽत्र, सदा प्रकृतिसुन्दरे ॥ ३६॥ तदेते कथितास्तुभ्यं, पुरे सात्विकमानसे । लोकाः महागिरे रूपं, समाकर्णय साम्प्रतम् ॥ ३७ ॥ तावद्दारुणदुःखार्ता, भवचक्रनिवासिनः । जना यावन्न पश्यन्ति, ते विवेकमहागिरिम् ॥ ३८ ॥ यदा पुनः प्रपश्यन्ति, ते विवेकमहागिरिम् । तदा न रमते तेषां, भवचक्रे मतिर्नृणाम् ॥ ३९ ॥ ततश्चविहाय भवचक्रं ते, समारुह्य महागिरिम् । विमुच्य दुःखं जायन्ते, निर्द्वन्द्वानन्दभागिनः॥ ४० ॥ यतोऽत्र निर्मले तुङ्गे, स्थितानां वत्स! देहिनाम् । भवचक्रमिदं सर्व, करस्थमिव भासते ॥४१॥ ततो विविधवृत्तान्तं, दुःखसङ्घातपूरितम् । विलोक्येदं विरज्यन्ते, नगरात्तेऽमुतो जनाः ॥ ४२ ॥ विरक्ताश्च भवन्त्यत्र, प्रतिबद्धा महागिरौ । विवेके भावतः सौख्यहेतुरेष च सगिरिः॥४३॥ ततश्च -विवेकसद्रेिर्वत्स!, माहात्म्येनास्य ते जनाः । भवन्ति सुखिनोऽत्यन्तं, भवचक्रेऽपि संस्थिताः ॥ ४४ ॥ तदेष सर्वलोकानां, सुखहेतुर्महागिरिः । विवेको वर्णितस्तुभ्यमधुना शिखरं शृणु ॥ ४५ ॥ इदं हि शिखरं तात!, सर्वदोषनिबर्हणम् । उत्रासकारणं मन्ये, दुष्टान्तरमहीभुजाम् ॥ ४६॥ यतः-विवेकारूढलोकानां, यग्रुपद्रवकारिणः । आगच्छेयुः कचिद्भद्र!, महामोहादिशत्रवः ॥ ४७ ॥ ततस्ते निर्दयैर्भूत्वा, विवेकारूढजन्तुभिः । शिखरादप्रमत्तत्वाल्लोट्यन्तेऽस्मान्न संशयः ॥४८॥ युग्मम् । ततस्ते चूर्णिताशेषशरीरावयवाः पुनः । दूरतः प्रपलायन्ते, शिखरं वीक्ष्य कातराः॥ ४९ ॥ तदिदं नूनमेतेषां, दलनार्थ विनिर्मितम् । विवेकवासिशत्रूणामन्तरङ्गमहीभुजाम् ॥५०॥ किं च--शुभ्रं विशालमुत्तुङ्ग, सर्वलोकसुखावहम् । वत्सेदमप्रमत्तत्वशिखरं गाढसुन्दरम् ॥ ५१ ॥ तदिदं ते समासेन, कथितं शिखरं| मया । अधुना वर्ण्यते जैन, पुरं तत्त्वं निशामय ॥ ५२ ।। इदं हि सत्पुरं वत्स!, निरन्तानन्दकारणम् । दुर्लभं भवचक्रे तु, जन्तुभिः
॥४४२॥
Jain Education
For Private
Personal Use Only
www.jainelibrary.org