Book Title: Upmitibhava Prapancha Katha Purvarddha
Author(s): Siddharshi Gani, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 446
________________ उपमिती च. ४-अ. विवेकशिखरवर्णनं ॥४४२॥ SISSEASTUSSURSS भातीदं, जनानां जैनसत्पुरम् ॥ ३४ ॥ निवसन्ति पुनर्येऽत्र, पुरे सात्विकमानसे । बहिरङ्गजनास्तेषां, भातीदं जैनसत्पुरम् ॥ ३५ ॥ तदमी भाविकल्याणा, लोका मार्गानुयायिनः । वास्तव्यकाः पुरे येऽत्र, सदा प्रकृतिसुन्दरे ॥ ३६॥ तदेते कथितास्तुभ्यं, पुरे सात्विकमानसे । लोकाः महागिरे रूपं, समाकर्णय साम्प्रतम् ॥ ३७ ॥ तावद्दारुणदुःखार्ता, भवचक्रनिवासिनः । जना यावन्न पश्यन्ति, ते विवेकमहागिरिम् ॥ ३८ ॥ यदा पुनः प्रपश्यन्ति, ते विवेकमहागिरिम् । तदा न रमते तेषां, भवचक्रे मतिर्नृणाम् ॥ ३९ ॥ ततश्चविहाय भवचक्रं ते, समारुह्य महागिरिम् । विमुच्य दुःखं जायन्ते, निर्द्वन्द्वानन्दभागिनः॥ ४० ॥ यतोऽत्र निर्मले तुङ्गे, स्थितानां वत्स! देहिनाम् । भवचक्रमिदं सर्व, करस्थमिव भासते ॥४१॥ ततो विविधवृत्तान्तं, दुःखसङ्घातपूरितम् । विलोक्येदं विरज्यन्ते, नगरात्तेऽमुतो जनाः ॥ ४२ ॥ विरक्ताश्च भवन्त्यत्र, प्रतिबद्धा महागिरौ । विवेके भावतः सौख्यहेतुरेष च सगिरिः॥४३॥ ततश्च -विवेकसद्रेिर्वत्स!, माहात्म्येनास्य ते जनाः । भवन्ति सुखिनोऽत्यन्तं, भवचक्रेऽपि संस्थिताः ॥ ४४ ॥ तदेष सर्वलोकानां, सुखहेतुर्महागिरिः । विवेको वर्णितस्तुभ्यमधुना शिखरं शृणु ॥ ४५ ॥ इदं हि शिखरं तात!, सर्वदोषनिबर्हणम् । उत्रासकारणं मन्ये, दुष्टान्तरमहीभुजाम् ॥ ४६॥ यतः-विवेकारूढलोकानां, यग्रुपद्रवकारिणः । आगच्छेयुः कचिद्भद्र!, महामोहादिशत्रवः ॥ ४७ ॥ ततस्ते निर्दयैर्भूत्वा, विवेकारूढजन्तुभिः । शिखरादप्रमत्तत्वाल्लोट्यन्तेऽस्मान्न संशयः ॥४८॥ युग्मम् । ततस्ते चूर्णिताशेषशरीरावयवाः पुनः । दूरतः प्रपलायन्ते, शिखरं वीक्ष्य कातराः॥ ४९ ॥ तदिदं नूनमेतेषां, दलनार्थ विनिर्मितम् । विवेकवासिशत्रूणामन्तरङ्गमहीभुजाम् ॥५०॥ किं च--शुभ्रं विशालमुत्तुङ्ग, सर्वलोकसुखावहम् । वत्सेदमप्रमत्तत्वशिखरं गाढसुन्दरम् ॥ ५१ ॥ तदिदं ते समासेन, कथितं शिखरं| मया । अधुना वर्ण्यते जैन, पुरं तत्त्वं निशामय ॥ ५२ ।। इदं हि सत्पुरं वत्स!, निरन्तानन्दकारणम् । दुर्लभं भवचक्रे तु, जन्तुभिः ॥४४२॥ Jain Education For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474