Book Title: Upmitibhava Prapancha Katha Purvarddha
Author(s): Siddharshi Gani,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
उपमितौ
च. ४-प्र.
॥ ४३३ ॥
स. भ. ३७ Jain Educatio
| ॥ ४५ ॥ प्रकर्षः प्राह यद्येवं ततो ब्रूहि क वर्तते । तत्पुरं माम! यल्लोकैर्गीयते षष्ठदर्शनम् ? ॥ ४६ ॥ विमर्शेनाभिहितं यदिदं दृश्यतेऽत्रैव, विवेकवरपर्वते । निर्मलं शिखरं तुङ्गमप्रमत्तत्वनामकम् ॥ ४७ ॥ विस्तीर्णमिदमत्यर्थमत्रैव च निवेशितम् । पुरं लोकोत्तरं वत्स !, तज्जैनमभिधीयते ॥ ४८ ॥ तस्य ते कथयिष्यामि, ये गुणाः शेषजित्वराः । तथापि लोकरूढ्यैव, षष्ठं हि तदुदाहृतम् ॥ ४९ ॥ अन्यच्च तत्र ये लोकास्तेषामेष महत्तमः । न बाधकः प्रकृत्यैव, मिथ्यादर्शननामकः ॥ ५० ॥ प्रकर्षेणोकं— अधः स्थितेषु बाध्यन्ते, पुरेषु यमी जनाः । शिखरस्थे न बाध्यन्ते, माम! किं तत्र कारणम् ? ॥ ५१ ॥ विमर्शेनोक्तं — अस्त्यत्र निर्वृतिलोंके, नगरी सुमनोहरा । सा च भुक्तेरतिक्रान्ता, महामोहादिभूभुजाम् ॥ ५२ ॥ निर्द्वन्द्वानन्दसंपूर्णा, सततं निरुपद्रवा । एभिश्वाकर्णिता सर्वैः, सा लोकैः पुरवासिभिः ॥ ५३ ॥ ततो लोकायतं मुक्त्वा, ये शेषपुरवासिनः । नगरीं गन्तुमिच्छन्ति, तामेते वत्स ! निर्वृतिम् ॥ ५४ ॥ एते च सर्वे तां गन्तुमन्तरङ्गैर्महापथैः । स्वकल्पितैः प्रवाञ्छन्ति, परस्परविरोधिभिः ।। ५५ ।। ततश्च — अमीभिर्वत्स ! भूरिष्ठैर्ये मार्गाः परिकल्पिताः । निर्वृतेः प्रापकास्ते हि न घटन्ते सुयुक्तितः ॥ ५६ ॥ विवेकपर्वतोत्तुङ्ग शिखरस्थित सत्पुरे । वसद्भिर्यः पुनर्दृष्टः, सन्मार्गोऽतिमनोहरः ॥ ५७ ॥ स निर्वृतिं नयत्येव, लोकं नास्त्यत्र संशयः । पक्षपातविमुक्तेन मया तेनेदमुच्यते ॥ ५८ ॥ - यथाऽमी बाघिता लोका, येऽधः स्थपुरवर्तिनः । मिथ्यादर्शनसंज्ञेन, न गिरिस्थे महापुरे ॥ ५९ ॥ यतः - तन्मिथ्यादर्शनस्यैव, माहात्म्यं स्फुटमुच्यते । यदेते न विजानन्ति, सन्मार्ग निर्वृतेर्जनाः ॥ ६० ॥ दिज्यूढा इव मन्यन्ते, कुमार्गमपि तत्त्वत्वः । सन्मार्ग इति यच्चैते, तचस्यैव विजृम्भितम् ॥ ६१ ॥ ये त्वेते शिखरे लोका, वर्तन्ते वत्स ! सत्पुरे । एषामेतद् द्वयं नास्ति, तेनेमे तस्य दूरगाः ॥ ६२ ॥ एतानि च पुराण्यत्र, प्रत्यासन्नानि तेन ते । दर्शितानि मया वत्स !, नेयता परिकीर्तिता ॥ ६३ ॥ किं तर्हि ? - उपलक्षणसेवानि, विज्ञातव्यानि भावतः । मिथ्यादर्शनवश्याना
For Private & Personal Use Only
षड्दर्शनवर्णनम्
॥ ४३३ ॥
w.jainelibrary.org

Page Navigation
1 ... 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474