SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ उपमितौ च. ४-प्र. ॥ ४३३ ॥ स. भ. ३७ Jain Educatio | ॥ ४५ ॥ प्रकर्षः प्राह यद्येवं ततो ब्रूहि क वर्तते । तत्पुरं माम! यल्लोकैर्गीयते षष्ठदर्शनम् ? ॥ ४६ ॥ विमर्शेनाभिहितं यदिदं दृश्यतेऽत्रैव, विवेकवरपर्वते । निर्मलं शिखरं तुङ्गमप्रमत्तत्वनामकम् ॥ ४७ ॥ विस्तीर्णमिदमत्यर्थमत्रैव च निवेशितम् । पुरं लोकोत्तरं वत्स !, तज्जैनमभिधीयते ॥ ४८ ॥ तस्य ते कथयिष्यामि, ये गुणाः शेषजित्वराः । तथापि लोकरूढ्यैव, षष्ठं हि तदुदाहृतम् ॥ ४९ ॥ अन्यच्च तत्र ये लोकास्तेषामेष महत्तमः । न बाधकः प्रकृत्यैव, मिथ्यादर्शननामकः ॥ ५० ॥ प्रकर्षेणोकं— अधः स्थितेषु बाध्यन्ते, पुरेषु यमी जनाः । शिखरस्थे न बाध्यन्ते, माम! किं तत्र कारणम् ? ॥ ५१ ॥ विमर्शेनोक्तं — अस्त्यत्र निर्वृतिलोंके, नगरी सुमनोहरा । सा च भुक्तेरतिक्रान्ता, महामोहादिभूभुजाम् ॥ ५२ ॥ निर्द्वन्द्वानन्दसंपूर्णा, सततं निरुपद्रवा । एभिश्वाकर्णिता सर्वैः, सा लोकैः पुरवासिभिः ॥ ५३ ॥ ततो लोकायतं मुक्त्वा, ये शेषपुरवासिनः । नगरीं गन्तुमिच्छन्ति, तामेते वत्स ! निर्वृतिम् ॥ ५४ ॥ एते च सर्वे तां गन्तुमन्तरङ्गैर्महापथैः । स्वकल्पितैः प्रवाञ्छन्ति, परस्परविरोधिभिः ।। ५५ ।। ततश्च — अमीभिर्वत्स ! भूरिष्ठैर्ये मार्गाः परिकल्पिताः । निर्वृतेः प्रापकास्ते हि न घटन्ते सुयुक्तितः ॥ ५६ ॥ विवेकपर्वतोत्तुङ्ग शिखरस्थित सत्पुरे । वसद्भिर्यः पुनर्दृष्टः, सन्मार्गोऽतिमनोहरः ॥ ५७ ॥ स निर्वृतिं नयत्येव, लोकं नास्त्यत्र संशयः । पक्षपातविमुक्तेन मया तेनेदमुच्यते ॥ ५८ ॥ - यथाऽमी बाघिता लोका, येऽधः स्थपुरवर्तिनः । मिथ्यादर्शनसंज्ञेन, न गिरिस्थे महापुरे ॥ ५९ ॥ यतः - तन्मिथ्यादर्शनस्यैव, माहात्म्यं स्फुटमुच्यते । यदेते न विजानन्ति, सन्मार्ग निर्वृतेर्जनाः ॥ ६० ॥ दिज्यूढा इव मन्यन्ते, कुमार्गमपि तत्त्वत्वः । सन्मार्ग इति यच्चैते, तचस्यैव विजृम्भितम् ॥ ६१ ॥ ये त्वेते शिखरे लोका, वर्तन्ते वत्स ! सत्पुरे । एषामेतद् द्वयं नास्ति, तेनेमे तस्य दूरगाः ॥ ६२ ॥ एतानि च पुराण्यत्र, प्रत्यासन्नानि तेन ते । दर्शितानि मया वत्स !, नेयता परिकीर्तिता ॥ ६३ ॥ किं तर्हि ? - उपलक्षणसेवानि, विज्ञातव्यानि भावतः । मिथ्यादर्शनवश्याना For Private & Personal Use Only षड्दर्शनवर्णनम् ॥ ४३३ ॥ w.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy