SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ उपमिती मिथ्यात्ववर्णन च. ४-प्र. ॥४३२॥ ला तत्र सर्वत्र विद्यन्ते, लोकास्तद्वशवर्तिनः ॥ २८ ॥ तथापि ये विशेषेण, तस्याज्ञाकारिणो जनाः । तेषां स्थानानि ते भद्र !, दर्शयामि परिस्फुटम् ॥ २९ ॥ ततश्चोर्ध्वं विशेषेण, कृत्वाऽसौ दक्षिणं करम् । तर्जन्या दर्शयत्येवं, तानि स्थानानि यत्नतः ॥ ३० ॥ अमूनि मानवावासे, दृश्यन्ते यानि सुन्दर!। अभ्यन्तरपुराणीह, पडवान्तरमण्डले ॥ ३१॥ एतानि वत्स! लोकानां, तेषां स्थानानि लक्षय । मिथ्यादर्शनसंज्ञेन, ये वशीकृतचेतसः ॥ ३२ ॥ प्रकर्षेणोक्तं-माम! किन्नामकान्येतानि पुराणि? किमभिधाना वैतेषु लोकाः प्रतिवसन्ति ?, विमर्शेनोक्तं वत्स! समाकर्णय-एकमत्र पुरे तावन्नैयायिकमितीरितम् । नैयायिकाश्च गीयन्ते, ते जना येऽत्र संस्थिताः ॥ ३३ ॥ अन्यद्वैशेषिकं नाम, पुरमत्राभिधीयते । वैशेषिकाश्च ते लोका, येऽस्य मध्ये व्यवस्थिताः ॥३४॥ तथाऽपरं जनैः सांख्य, पुरमत्र प्रकाशितम् । सांख्याश्च ते विनिर्दिष्टा, लोका येऽत्र वसन्ति भोः ॥३५॥ इहापरं पुनबौद्धं, पुरमाख्यायते जनैः । प्रसिद्धा बौद्धसंज्ञाश्च, ते जना येऽस्य मध्यगाः ॥ ३६॥ मीमांसकपुरं नाम, तथाऽन्यत्परिकीर्तितम् । मीमांसकाश्च गीयन्ते, ते लोका येऽत्र संस्थिताः ॥३७॥ लोकायतमिति प्रोक्तं, पुरमत्र तथाऽपरम् । बार्हस्पत्याश्च ते लोका, ये वास्तव्याः पुरेऽत्र भोः! ॥ ३८ ॥ तदेतेषु पुरेपूच्चैर्येऽमी लोकाः प्रकीर्तिताः । ते विशेषेण कुर्वन्ति, मिथ्यादर्शनशासनम् ॥ ३९ ॥ यच्च प्रोक्तं मया पूर्व, सभार्यस्य विजृम्भितम् । तस्य सर्व तदेतेषु, लोकेषु ननु दृश्यते ॥ ४० ॥ प्रकर्षेणोक्तं-षडत्र यानि श्रूयन्ते, मण्डले लोकवार्तया । दर्शनानि किमेतानि, तान्याख्यातानि मे त्वया ? ॥४१॥ विमर्शेनोदितं वत्स!, कथ्यते ते परिस्फुटम् । एतानि पञ्च तान्येव, मीमांसकपुरं विना ॥ ४२ ॥ अर्वाकालिकमेतद्धि, मीमांसकपुरं मतम् । तेन दर्शनसंख्यायामेतल्लोकैर्न गण्यते ॥ ४३ ॥ तथाहि-जैमिनिर्वेदरक्षार्थ, दूषणोद्धारणेच्छया । चकार किल मीमांसां, दृष्ट्वा तीर्थिकविप्लवम् ॥ ४४ ॥ तस्मादेतानि पञ्चैव, मीमांसकपुरं विना । लोकैदर्शनसंख्यायां, गण्यन्ते नात्र संशयः ॥४३२॥ Jain Education in For Private & Personel Use Only linelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy