SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ उपमिती मिथ्यात्ववर्णन च. ४-प्र. ॥४३२॥ ला तत्र सर्वत्र विद्यन्ते, लोकास्तद्वशवर्तिनः ॥ २८ ॥ तथापि ये विशेषेण, तस्याज्ञाकारिणो जनाः । तेषां स्थानानि ते भद्र !, दर्शयामि परिस्फुटम् ॥ २९ ॥ ततश्चोर्ध्वं विशेषेण, कृत्वाऽसौ दक्षिणं करम् । तर्जन्या दर्शयत्येवं, तानि स्थानानि यत्नतः ॥ ३० ॥ अमूनि मानवावासे, दृश्यन्ते यानि सुन्दर!। अभ्यन्तरपुराणीह, पडवान्तरमण्डले ॥ ३१॥ एतानि वत्स! लोकानां, तेषां स्थानानि लक्षय । मिथ्यादर्शनसंज्ञेन, ये वशीकृतचेतसः ॥ ३२ ॥ प्रकर्षेणोक्तं-माम! किन्नामकान्येतानि पुराणि? किमभिधाना वैतेषु लोकाः प्रतिवसन्ति ?, विमर्शेनोक्तं वत्स! समाकर्णय-एकमत्र पुरे तावन्नैयायिकमितीरितम् । नैयायिकाश्च गीयन्ते, ते जना येऽत्र संस्थिताः ॥ ३३ ॥ अन्यद्वैशेषिकं नाम, पुरमत्राभिधीयते । वैशेषिकाश्च ते लोका, येऽस्य मध्ये व्यवस्थिताः ॥३४॥ तथाऽपरं जनैः सांख्य, पुरमत्र प्रकाशितम् । सांख्याश्च ते विनिर्दिष्टा, लोका येऽत्र वसन्ति भोः ॥३५॥ इहापरं पुनबौद्धं, पुरमाख्यायते जनैः । प्रसिद्धा बौद्धसंज्ञाश्च, ते जना येऽस्य मध्यगाः ॥ ३६॥ मीमांसकपुरं नाम, तथाऽन्यत्परिकीर्तितम् । मीमांसकाश्च गीयन्ते, ते लोका येऽत्र संस्थिताः ॥३७॥ लोकायतमिति प्रोक्तं, पुरमत्र तथाऽपरम् । बार्हस्पत्याश्च ते लोका, ये वास्तव्याः पुरेऽत्र भोः! ॥ ३८ ॥ तदेतेषु पुरेपूच्चैर्येऽमी लोकाः प्रकीर्तिताः । ते विशेषेण कुर्वन्ति, मिथ्यादर्शनशासनम् ॥ ३९ ॥ यच्च प्रोक्तं मया पूर्व, सभार्यस्य विजृम्भितम् । तस्य सर्व तदेतेषु, लोकेषु ननु दृश्यते ॥ ४० ॥ प्रकर्षेणोक्तं-षडत्र यानि श्रूयन्ते, मण्डले लोकवार्तया । दर्शनानि किमेतानि, तान्याख्यातानि मे त्वया ? ॥४१॥ विमर्शेनोदितं वत्स!, कथ्यते ते परिस्फुटम् । एतानि पञ्च तान्येव, मीमांसकपुरं विना ॥ ४२ ॥ अर्वाकालिकमेतद्धि, मीमांसकपुरं मतम् । तेन दर्शनसंख्यायामेतल्लोकैर्न गण्यते ॥ ४३ ॥ तथाहि-जैमिनिर्वेदरक्षार्थ, दूषणोद्धारणेच्छया । चकार किल मीमांसां, दृष्ट्वा तीर्थिकविप्लवम् ॥ ४४ ॥ तस्मादेतानि पञ्चैव, मीमांसकपुरं विना । लोकैदर्शनसंख्यायां, गण्यन्ते नात्र संशयः ॥४३२॥ Jain Education in For Private & Personel Use Only linelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy