________________
उपमितौ च. ४-प्र.
षड्दर्शन
वर्णनम्
॥४३४॥
मन्येषामपि तादृशम् ॥ ६४ ॥ यतः-यान्येतानि पुराण्यत्र, दृश्यन्ते वत्स! भूतले । नान्यत्र देशकालेषु, स्थानकानि बहूनि च ॥ ६५ ॥ एतत्तु शिखरस्थायि, सत्पुरं भद्र! सर्वदा । अप्रच्युतमनुत्पन्नं, शाश्वतं परमार्थतः ॥ ६६ ॥ प्रकर्षेणोदितं माम!, येऽमीभिः परिकल्पिताः । स्वबुद्ध्या निवृतेर्मार्गा, लोकैः पुरनिवासिभिः ॥ ६७ ॥ तानहं श्रोतुमिच्छामि, प्रत्येकं सकुतूहलः । ततो मेऽनुग्रहं कृत्वा, भवानाख्यातुमर्हति ॥ ६८ ॥ विमर्शः प्राह यद्येवं, ततः कृत्वा समाहितम् । चेतस्त्वं वत्स! बुध्यस्ख, मार्गान्वक्ष्ये परिस्फुटम् ॥ ६९ ॥ तत्र नैयायिकैस्तावदेष कल्पितो वत्स! निर्वृतिमार्गः, यदुत-प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानानां तत्त्वपरिज्ञानान्निःश्रेयसाधिगमः । तत्रार्थोपलम्भहेतुः प्रमाणं, तच्चतुर्धा, तद्यथाप्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि । तत्र प्रत्यक्षम्-इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षं, तत्पूर्वकं त्रिविधमनुमानं, तद्यथा-पूर्ववच्छेषवत्सामान्यतोदृष्टं च, तत्र पूर्ववत्कारणात्कार्यानुमानं, यथा मेघोन्नतेर्भविष्यति वृष्टिरिति, शेषवकार्यात्कारणानुमानं, यथा विशिष्टान्नदीपूरदर्शनादुपरि वृष्टो देव इति, सामान्यतोदृष्टं नाम यथा देवदत्तादौ गतिपूर्विका देशान्तरप्राप्तिमुपलभ्य दिनकरेऽपि सा गतिपूर्विकैव समधिगम्यते, प्रसिद्धसाधर्म्यात्साध्यसाधनमुपमानं, यथा गौस्तथा गवय इति, आप्तोपदेशः शब्द आगम इत्यर्थः । तदेवमिदं चतुर्विधं प्रमाणमभिहितं । तथाऽऽत्माशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गास्तु प्रमेयं । किं स्यादित्यनवधारणात्मकः प्रत्ययः संशयः, किमयं स्थाणुः स्यादुत पुरुष इति । येन प्रयुक्तः प्रवर्तते तत्प्रयोजनं । अविप्रतिपत्तिविषयापन्नो दृष्टान्तः । सिद्धान्तश्चतुर्विधः, तद्यथा-सर्वतबसिद्धान्तः प्रतितत्रसिद्धान्तः अधिकरणसिद्धान्तः अभ्युपगमसिद्धान्तश्चेति । प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवाः । संशयादूर्ध्व भवितव्यताप्रत्ययस्तर्कः, यथा भवितव्यमत्र स्थाणुना पुरुषेण वेति । संशयतर्काभ्यामूर्व
॥४३४॥
Jain Educationa
la
For Private & Personel Use Only
Vahainelibrary.org