SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ उपमिती वर्णनम् ॥४३५॥ SSSSSSSSSSSSSSSSS निश्चयतः प्रत्ययो निर्णयः, यथा पुरुष एवायं स्थाणुरेव वा । तिस्रः कथाः-वादजल्पवितण्डाः, तत्र शिष्याचार्ययोः पक्षप्रतिपक्षपरिग्रहेणाभ्यासख्यापनाय वादकथा, विजिगीषुणा सार्ध छलजातिनिग्रहस्थानसाधनोपालम्भो जल्पः, स एव स्वपक्षप्रतिपक्षस्थापनाहीनो वितण्डा । अनैकान्तिकादयो हेत्वाभासाः । नवकम्बलो देवदत्त इत्यादि छलं । दूषणाभासास्तु जातयः । निग्रहस्थानानि पराजयवस्तूनि, तद्यथाप्रतिज्ञाहानिः प्रतिज्ञान्तरं प्रतिज्ञाविरोधैः प्रतिज्ञासंन्यासः हेत्वन्तरं अर्थान्तरं निरर्थक अविज्ञातीर्थमपार्थकं अप्राप्तकालं न्यूनमधिकं पुनरुक्तं अननुभषणं अप्रतिज्ञानं अप्रति( कथाविक्षेपो मतानुज्ञा पर्यनुयोज्योपेक्षणं निरनुयोज्यानुयोगः अपसिद्धान्तो हेत्वाभीसाश्चेति निग्रहस्थानानि । तदेते प्रमाणादयः षोडश पदार्था नैयायिकदर्शनसमासः॥ वैशेषिकैः पुनरयं वत्स! परिकल्पितो निर्वृतिनगरीगमन-2 मार्गः, यदुत-द्रव्यगुणकर्मसामान्यविशेषसमवायानां षण्णां पदार्थानां तत्त्वपरिज्ञानान्निःश्रेयसाधिगमः । स हि निर्वृतिनिःश्रेयसरूपा । तत्र पृथिव्यापस्तेजो वायुराकाशं कालो दिगात्मा मनो इति नव द्रव्याणि । रूपरसगन्धस्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वबु| द्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्कारगुरुत्वद्रवत्वस्नेहवेगशब्दाः पञ्चविंशतिर्गुणाः । उत्क्षेपणमवक्षेपणमाकुञ्चनं प्रसारणं गमनमिति पञ्च कर्माणि । सामान्यं द्विविधं-परमपरं च, तत्र परं सत्तालक्षणं, अपरं द्रव्यत्वादीति । नित्यद्रव्यवृत्तयोऽन्त्या विशेषाः । अयुतसिद्धानामाधाराधेयभूतानां यः सम्बन्ध इहप्रत्ययहेतुः स समवायः। लैङ्गिकप्रत्यक्षे द्वे एव प्रमाणे । इति वैशेषिकदर्शनसमासार्थः । सांख्यैस्तु वत्स! निजबुद्ध्या परिकल्पितोऽयं निर्वृतिनगर्याः पन्थाः, यदुत-पञ्चविंशतितत्त्वपरिज्ञानान्निःश्रेयसाधिगमः । तत्र त्रयो गुणाः-सत्त्वं | रजस्तमश्च । तत्र प्रसादलाघवप्रणयानभिष्वङ्गाद्वेषप्रतीतयः कार्य सत्त्वस्य, शोकतापभेदस्तम्भोद्वेगापद्वेषाः कार्य रजसः, मरणसादनबीभत्सदैन्यगौरवाणि तमसः कार्य । ततः सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः, सैव प्रधानमित्युच्यते । प्रकृतेश्च महानाविर्भवति, बुद्धि ॥४३५ Jain Education Intern For Private & Personel Use Only Minelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy