SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ उपमिती वर्णनम् ॥४३५॥ SSSSSSSSSSSSSSSSS निश्चयतः प्रत्ययो निर्णयः, यथा पुरुष एवायं स्थाणुरेव वा । तिस्रः कथाः-वादजल्पवितण्डाः, तत्र शिष्याचार्ययोः पक्षप्रतिपक्षपरिग्रहेणाभ्यासख्यापनाय वादकथा, विजिगीषुणा सार्ध छलजातिनिग्रहस्थानसाधनोपालम्भो जल्पः, स एव स्वपक्षप्रतिपक्षस्थापनाहीनो वितण्डा । अनैकान्तिकादयो हेत्वाभासाः । नवकम्बलो देवदत्त इत्यादि छलं । दूषणाभासास्तु जातयः । निग्रहस्थानानि पराजयवस्तूनि, तद्यथाप्रतिज्ञाहानिः प्रतिज्ञान्तरं प्रतिज्ञाविरोधैः प्रतिज्ञासंन्यासः हेत्वन्तरं अर्थान्तरं निरर्थक अविज्ञातीर्थमपार्थकं अप्राप्तकालं न्यूनमधिकं पुनरुक्तं अननुभषणं अप्रतिज्ञानं अप्रति( कथाविक्षेपो मतानुज्ञा पर्यनुयोज्योपेक्षणं निरनुयोज्यानुयोगः अपसिद्धान्तो हेत्वाभीसाश्चेति निग्रहस्थानानि । तदेते प्रमाणादयः षोडश पदार्था नैयायिकदर्शनसमासः॥ वैशेषिकैः पुनरयं वत्स! परिकल्पितो निर्वृतिनगरीगमन-2 मार्गः, यदुत-द्रव्यगुणकर्मसामान्यविशेषसमवायानां षण्णां पदार्थानां तत्त्वपरिज्ञानान्निःश्रेयसाधिगमः । स हि निर्वृतिनिःश्रेयसरूपा । तत्र पृथिव्यापस्तेजो वायुराकाशं कालो दिगात्मा मनो इति नव द्रव्याणि । रूपरसगन्धस्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वबु| द्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्कारगुरुत्वद्रवत्वस्नेहवेगशब्दाः पञ्चविंशतिर्गुणाः । उत्क्षेपणमवक्षेपणमाकुञ्चनं प्रसारणं गमनमिति पञ्च कर्माणि । सामान्यं द्विविधं-परमपरं च, तत्र परं सत्तालक्षणं, अपरं द्रव्यत्वादीति । नित्यद्रव्यवृत्तयोऽन्त्या विशेषाः । अयुतसिद्धानामाधाराधेयभूतानां यः सम्बन्ध इहप्रत्ययहेतुः स समवायः। लैङ्गिकप्रत्यक्षे द्वे एव प्रमाणे । इति वैशेषिकदर्शनसमासार्थः । सांख्यैस्तु वत्स! निजबुद्ध्या परिकल्पितोऽयं निर्वृतिनगर्याः पन्थाः, यदुत-पञ्चविंशतितत्त्वपरिज्ञानान्निःश्रेयसाधिगमः । तत्र त्रयो गुणाः-सत्त्वं | रजस्तमश्च । तत्र प्रसादलाघवप्रणयानभिष्वङ्गाद्वेषप्रतीतयः कार्य सत्त्वस्य, शोकतापभेदस्तम्भोद्वेगापद्वेषाः कार्य रजसः, मरणसादनबीभत्सदैन्यगौरवाणि तमसः कार्य । ततः सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः, सैव प्रधानमित्युच्यते । प्रकृतेश्च महानाविर्भवति, बुद्धि ॥४३५ Jain Education Intern For Private & Personel Use Only Minelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy