________________
उपमितौ चं. ४-प्र.
षड्दर्शनवर्णनम्
॥४३६॥
रित्यर्थः । बुद्धेश्चाहङ्कारः । ततोऽहङ्कारादेकादशेन्द्रियाणि, तद्यथा-पञ्च बुद्धीन्द्रियाणि स्पर्शनरसनघ्राणचक्षुःश्रोत्ररूपाणि पञ्च कर्मेन्द्रियाणि वाक्पाणिपादपायूपस्थलक्षणानि मनश्चाविर्भवति । तथा तत एवाहङ्कारात्तमोबहुलात्पश्च तन्मात्राणि स्पर्शरसरूपगन्धशब्दलक्षणान्याविर्भवन्ति । तेभ्यश्च पृथिव्यादीनि पञ्च महाभूतानि । तदेषा चतुर्विंशतितत्त्वात्मिका प्रकृतिः । तथा परः पुरुषश्चैतन्यखरूपः, स चानेको जन्ममरणकरणानां नियमदर्शनाद्धर्मादिषु प्रवृत्तिनानात्वाच्च । प्रकृतिपुरुषयोश्योपभोगार्थः संयोगः पङ्ग्वन्धयोरिव, उपभोगश्च | शब्दाद्युपलम्भो गुणपुरुषान्तरोपभोगश्च । प्रत्यक्षानुमानागमाः प्रमाणानि । इति सांख्यदर्शनसंक्षेपार्थः॥ बौद्धैः पुनर्भद्र ! परिकल्पितेयं | निर्वृतिनगरीवर्तनी, यदुत-द्वादशायतनानि, तद्यथा-पञ्चेन्द्रियाणि पञ्च शब्दादयो मनो धर्मायतनं च, धर्मास्तु सुखादयो विज्ञेयाः ।। प्रत्यक्षानुमाने द्वे एव प्रमाणे । इति बौद्धदर्शनसमासार्थः ॥ अथवा वैभाषिकसौत्रान्तिकयोगाचारमाध्यमिकभेदाच्चतुर्विधा बौद्धा भवन्ति, तत्र वैभाषिकमतमिदं, यदुत-क्षणिकं वस्तु, तद्यथा-जातिर्जनयति स्थितिः स्थापयति जरा जर्जरयति विनाशो नाशयति ।। तथाऽऽत्माऽपि तथाविध एव पुद्गलश्चासावभिधीयते ॥ सौत्रान्तिकमतं पुनरिदं-रूपवेदनाविज्ञानसंज्ञासंस्काराः सर्वशरीरिणामेते पञ्च स्कन्धा विद्यन्ते, न पुनरात्मा । त एव हि परलोकगामिनः । तथा क्षणिकाः सर्वे संस्काराः स्खलक्षणं परमार्थतः । अन्यापोहः शब्दार्थः। सन्तानोच्छेदो मोक्ष इति ॥ योगाचारमतं त्विदं-विज्ञानमात्रमिदं भुवनं, न विद्यते बाह्यार्थः । वासनापरिपाकतो नीलपीतादिप्रतिभासाः । आलयविज्ञानं सर्ववासनाधारभूतं । आलयविज्ञानविशुद्धिरेव चापवर्ग इति ॥ माध्यमिकदर्शने तु–सर्वशून्यमिदं, स्वप्नोपमः प्रमाणप्रमेयप्रविभागः । 'मुक्तिस्तु शून्यतादृष्टिस्तदर्थ शेषभावना' इति बौद्ध विशेषाणां मतसंक्षेपार्थः ॥ लोकायतैः पुनर्वत्स! सा निर्वतिनगरी नास्तीति प्रख्यापितं लोके, यतोऽमी ब्रुवते-नास्ति निर्वृतिर्नास्ति जीवो नास्ति परलोको नास्ति पुण्यं नास्ति पापमित्यादि ।
Jain Education Intel
I
For Private & Personel Use Only
meinelibrary.org