SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ उपमितौ चं. ४-प्र. षड्दर्शनवर्णनम् ॥४३६॥ रित्यर्थः । बुद्धेश्चाहङ्कारः । ततोऽहङ्कारादेकादशेन्द्रियाणि, तद्यथा-पञ्च बुद्धीन्द्रियाणि स्पर्शनरसनघ्राणचक्षुःश्रोत्ररूपाणि पञ्च कर्मेन्द्रियाणि वाक्पाणिपादपायूपस्थलक्षणानि मनश्चाविर्भवति । तथा तत एवाहङ्कारात्तमोबहुलात्पश्च तन्मात्राणि स्पर्शरसरूपगन्धशब्दलक्षणान्याविर्भवन्ति । तेभ्यश्च पृथिव्यादीनि पञ्च महाभूतानि । तदेषा चतुर्विंशतितत्त्वात्मिका प्रकृतिः । तथा परः पुरुषश्चैतन्यखरूपः, स चानेको जन्ममरणकरणानां नियमदर्शनाद्धर्मादिषु प्रवृत्तिनानात्वाच्च । प्रकृतिपुरुषयोश्योपभोगार्थः संयोगः पङ्ग्वन्धयोरिव, उपभोगश्च | शब्दाद्युपलम्भो गुणपुरुषान्तरोपभोगश्च । प्रत्यक्षानुमानागमाः प्रमाणानि । इति सांख्यदर्शनसंक्षेपार्थः॥ बौद्धैः पुनर्भद्र ! परिकल्पितेयं | निर्वृतिनगरीवर्तनी, यदुत-द्वादशायतनानि, तद्यथा-पञ्चेन्द्रियाणि पञ्च शब्दादयो मनो धर्मायतनं च, धर्मास्तु सुखादयो विज्ञेयाः ।। प्रत्यक्षानुमाने द्वे एव प्रमाणे । इति बौद्धदर्शनसमासार्थः ॥ अथवा वैभाषिकसौत्रान्तिकयोगाचारमाध्यमिकभेदाच्चतुर्विधा बौद्धा भवन्ति, तत्र वैभाषिकमतमिदं, यदुत-क्षणिकं वस्तु, तद्यथा-जातिर्जनयति स्थितिः स्थापयति जरा जर्जरयति विनाशो नाशयति ।। तथाऽऽत्माऽपि तथाविध एव पुद्गलश्चासावभिधीयते ॥ सौत्रान्तिकमतं पुनरिदं-रूपवेदनाविज्ञानसंज्ञासंस्काराः सर्वशरीरिणामेते पञ्च स्कन्धा विद्यन्ते, न पुनरात्मा । त एव हि परलोकगामिनः । तथा क्षणिकाः सर्वे संस्काराः स्खलक्षणं परमार्थतः । अन्यापोहः शब्दार्थः। सन्तानोच्छेदो मोक्ष इति ॥ योगाचारमतं त्विदं-विज्ञानमात्रमिदं भुवनं, न विद्यते बाह्यार्थः । वासनापरिपाकतो नीलपीतादिप्रतिभासाः । आलयविज्ञानं सर्ववासनाधारभूतं । आलयविज्ञानविशुद्धिरेव चापवर्ग इति ॥ माध्यमिकदर्शने तु–सर्वशून्यमिदं, स्वप्नोपमः प्रमाणप्रमेयप्रविभागः । 'मुक्तिस्तु शून्यतादृष्टिस्तदर्थ शेषभावना' इति बौद्ध विशेषाणां मतसंक्षेपार्थः ॥ लोकायतैः पुनर्वत्स! सा निर्वतिनगरी नास्तीति प्रख्यापितं लोके, यतोऽमी ब्रुवते-नास्ति निर्वृतिर्नास्ति जीवो नास्ति परलोको नास्ति पुण्यं नास्ति पापमित्यादि । Jain Education Intel I For Private & Personel Use Only meinelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy