SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ षड्दर्शन S उपमितौ किं तर्हि ?, पृथिव्यापस्तेजो वायुरिति तत्त्वानि, तत्समुदाये शरीरेन्द्रियविषयसंज्ञा । तेभ्यश्चैतन्यं मद्याङ्गेभ्यो मदशक्तिवत् । जलबुद्बुद्च. ४-प्र. वज्जीवाः । प्रवृत्तिनिवृत्तिसाध्या प्रीतिः पुरुषार्थः, स च काम एव, नान्यो मोक्षादिः । तस्मान्नान्यत्पृथिव्यादिभ्यस्तत्त्वमस्ति, दृष्टहान्य- वर्णनम् दृष्टकल्पनासम्भवादिति । प्रत्यक्षमेव चैकं प्रमाणमिति लोकायतमतसमासः ॥ मीमांसकानां पुनरेष मार्गः, यदुत-वेदपाठानन्तरं ॥४३७॥ धर्मजिज्ञासा कर्तव्या । यतश्चैवं ततस्तस्य निमित्तपरीक्षा । निमित्तं च चोदना । यत उक्तं-"चोदनालक्षणोऽर्थो धर्मः” । चोदना च क्रि यायां प्रवर्तकं वचनमाहुर्यथा-'अग्निहोत्रं जुहुयात्स्वर्गकामः' इत्यादि । तेन धर्मो लक्ष्यते, नान्येन प्रमाणेन, प्रत्यक्षादीनां विद्यमानो-14 लपलम्भनत्वादिति । प्रत्यक्षानुमानशब्दोपमानार्थापत्त्यभावाः षट् प्रमाणानि । इति मीमांसकमतसमासः ॥ अमीभिः पुनर्वत्स! विवे कमहापर्वतारूढ़ रप्रमत्तत्वशिखरस्थितैजैनपुरनिवासिभि®नलोकैरयं दृष्टो निर्वृतिनगरीगमनमार्गः, यदुत-जीवाजीवानवबन्धसंवरनिर्जरामोक्षास्तत्त्वं । तत्र सुखदुःखज्ञानादिपरिणामलक्षणो जीवः । तद्विपरीतस्त्वजीवः । मिथ्यादर्शनाविरतिप्रमादकषाययोगा बन्धहेतवः स आस्रवः । आस्रवकार्य बन्धः । आस्रवविपरीतः संवरः । संवरफलं निर्जरा । निर्जराफलं मोक्ष इत्येते सप्त पदार्थाः । तथा विधिप्रतिषेधानुष्ठानपदार्थाविरोधश्च । अत्र जैनदर्शने स्वर्गकेवलार्थिना तपोध्यानादि कर्तव्यं 'सर्वे जीवा न हन्तव्या' इति वचनात् 'सततसमितिगुप्तिशुद्धा क्रिया असपत्नो योग' इति वचनात् । उत्पादविगमध्रौव्ययुक्तं सत् । एकं द्रव्यमनन्तपर्यायमर्थ इति । प्रत्यक्षपरोक्षे द्वे एवं प्रमाणे । इति जैनमतस्य दिग्दर्शनमात्रम् ॥ तत्रैते प्रथमास्तावञ्चत्वारो वत्स! वादिनः । नैयायिकादयो नैव, निवृतेर्मार्गवेदकाः ॥ १॥ यतः-एकान्तनित्यमिच्छन्ति, पुरुषं तत्र गामुकम् । सर्वत्रगं च वाञ्छन्ति, तथाऽन्ये क्षणनश्वरम् ॥ २॥ नित्यश्चासौ कथं का गच्छेत्तस्यामविचलो यतः । सर्वत्रगश्च यो भद्र!, स क गच्छेत्कुतोऽपि वा ॥३॥ नश्वरोऽपि विनष्टत्वान्न तस्यां गन्तुमर्हति । तस्मा in Education intermina For Private & Personel Use Only Mr.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy