SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ षड्दर्शन S उपमितौ किं तर्हि ?, पृथिव्यापस्तेजो वायुरिति तत्त्वानि, तत्समुदाये शरीरेन्द्रियविषयसंज्ञा । तेभ्यश्चैतन्यं मद्याङ्गेभ्यो मदशक्तिवत् । जलबुद्बुद्च. ४-प्र. वज्जीवाः । प्रवृत्तिनिवृत्तिसाध्या प्रीतिः पुरुषार्थः, स च काम एव, नान्यो मोक्षादिः । तस्मान्नान्यत्पृथिव्यादिभ्यस्तत्त्वमस्ति, दृष्टहान्य- वर्णनम् दृष्टकल्पनासम्भवादिति । प्रत्यक्षमेव चैकं प्रमाणमिति लोकायतमतसमासः ॥ मीमांसकानां पुनरेष मार्गः, यदुत-वेदपाठानन्तरं ॥४३७॥ धर्मजिज्ञासा कर्तव्या । यतश्चैवं ततस्तस्य निमित्तपरीक्षा । निमित्तं च चोदना । यत उक्तं-"चोदनालक्षणोऽर्थो धर्मः” । चोदना च क्रि यायां प्रवर्तकं वचनमाहुर्यथा-'अग्निहोत्रं जुहुयात्स्वर्गकामः' इत्यादि । तेन धर्मो लक्ष्यते, नान्येन प्रमाणेन, प्रत्यक्षादीनां विद्यमानो-14 लपलम्भनत्वादिति । प्रत्यक्षानुमानशब्दोपमानार्थापत्त्यभावाः षट् प्रमाणानि । इति मीमांसकमतसमासः ॥ अमीभिः पुनर्वत्स! विवे कमहापर्वतारूढ़ रप्रमत्तत्वशिखरस्थितैजैनपुरनिवासिभि®नलोकैरयं दृष्टो निर्वृतिनगरीगमनमार्गः, यदुत-जीवाजीवानवबन्धसंवरनिर्जरामोक्षास्तत्त्वं । तत्र सुखदुःखज्ञानादिपरिणामलक्षणो जीवः । तद्विपरीतस्त्वजीवः । मिथ्यादर्शनाविरतिप्रमादकषाययोगा बन्धहेतवः स आस्रवः । आस्रवकार्य बन्धः । आस्रवविपरीतः संवरः । संवरफलं निर्जरा । निर्जराफलं मोक्ष इत्येते सप्त पदार्थाः । तथा विधिप्रतिषेधानुष्ठानपदार्थाविरोधश्च । अत्र जैनदर्शने स्वर्गकेवलार्थिना तपोध्यानादि कर्तव्यं 'सर्वे जीवा न हन्तव्या' इति वचनात् 'सततसमितिगुप्तिशुद्धा क्रिया असपत्नो योग' इति वचनात् । उत्पादविगमध्रौव्ययुक्तं सत् । एकं द्रव्यमनन्तपर्यायमर्थ इति । प्रत्यक्षपरोक्षे द्वे एवं प्रमाणे । इति जैनमतस्य दिग्दर्शनमात्रम् ॥ तत्रैते प्रथमास्तावञ्चत्वारो वत्स! वादिनः । नैयायिकादयो नैव, निवृतेर्मार्गवेदकाः ॥ १॥ यतः-एकान्तनित्यमिच्छन्ति, पुरुषं तत्र गामुकम् । सर्वत्रगं च वाञ्छन्ति, तथाऽन्ये क्षणनश्वरम् ॥ २॥ नित्यश्चासौ कथं का गच्छेत्तस्यामविचलो यतः । सर्वत्रगश्च यो भद्र!, स क गच्छेत्कुतोऽपि वा ॥३॥ नश्वरोऽपि विनष्टत्वान्न तस्यां गन्तुमर्हति । तस्मा in Education intermina For Private & Personel Use Only Mr.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy