SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ निर्वृति उपमितौ च. ४-प्र. ॥४३८॥ माग देते न जानन्ति, मार्ग तस्यास्तपस्विनः ॥४॥ लोकायतास्तु दूरेण, वर्तन्ते वत्स! निर्वृतेः। ये हि पापहतात्मानो, निराकुर्वन्ति तामपि ॥५॥ किं च-लोकायतमतं प्राज्ञैज्ञेयं पापौघकारणम् । निर्द्वन्द्वानन्दपूर्णाया, निवृतेः प्रतिषेधकम् ॥ ६॥ तस्माइष्टाशयकरं, क्लिष्टस-1 त्वविचिन्तितम् । पापश्रुतं सदा धीरैर्वयं नास्तिकदर्शनम् ॥ ७॥ परमार्थेन सा वत्स!, नेष्टा मीमांसकैरपि । यैः सर्वज्ञं निराकृत्य, वेदप्रामाण्यमीरितम् ॥ ८ ॥ तदेवमेते सर्वेऽपि, भूमिष्ठपुरवासिनः । अनेन कारणेनोक्ता, मिथ्यादर्शनमोहिताः ॥ ९॥ एते तु शिखरा-18 रूढाः, पुरे वास्तव्यका जनाः । यं वदन्ति स निर्मिथ्यो, निर्वृतेः प्रगुणः पथः ॥ १०॥ ततश्च यथावस्थितसन्मार्गवेदिनां वीर्यशा| लिनाम् । महत्तमो न बाधायै, मिथ्यादर्शननामकः ॥ ११ ॥ ज्ञानश्रद्धानपूतास्ते, निःस्पृहा भवचारके । चारित्रयानमारुह्य, निवृति | यान्ति मानवाः ॥ १२॥ यथा च सन्मा(त्यो मा)र्गोऽयं, यथा चान्ये न तद्विधाः । इदं च पुरतो वत्स!, यद्यहं ते विचारये ॥१३॥ ततो | जन्म ममात्येति, न विचारस्य निष्ठितिः । तेनेदं ते समासेन, प्रविभज्य निवेद्यते ॥ १४ ॥ युग्मम् । ज्ञानदर्शनचारित्रलक्षणो ह्यान्तरो मतः । विद्वद्भिर्निवृतेर्मार्गः, प्रगुणः सुपरिस्फुटः ॥ १५ ॥ स दृष्टः पर्वतारूढैन दृष्टो भूमिवासिभिः । तेनैते तत्र गन्तारो, न गन्तारो भुवि स्थिताः ॥ १६ ॥ तदेते कथितास्तुभ्यं, भवचक्रे मया जनाः । ये मिथ्यादर्शनाख्येन, तेन भद्र! विडम्बिताः ॥ १७ ॥ प्रकर्षः प्राह मामेदं, भवचक्रं मया पुरम् । सर्व विलोकितं दृष्टं, वीर्यमान्तरभूभुजाम् ॥ १८ ॥ केवलं तदिदं जातं, महाहास्यकरं परम् । | आभाणकं जगत्यत्र, यद्वालैरपि गीयते ॥१९॥ गन्त्रीमनुष्यसामग्र्या, यो वधूमाहरिष्यति । तस्यैव विस्मृता हन्त, सा वधूरिति कौतुकम् ।। २० ॥ तथाहि-महामोहादिजेतारो, महात्मानो नरोत्तमाः । द्रष्टव्या भवचक्रेऽत्र, सन्तोषसहिताः किल ॥ २१॥ एतदर्थ- मिहायातौ, मामावामत्र पत्तने । न दृष्टास्ते महात्मानो, न च सन्तोषभूपतिः ॥ २२ ॥ अतोऽधुनापि तान्मामो, मदनुग्रहकाम्यया । ॥४३८॥ Jain Educatio n al For Private & Personel Use Only Manjainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy