Book Title: Upmitibhava Prapancha Katha Purvarddha
Author(s): Siddharshi Gani, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 435
________________ unician उपमितौ च. ४-अ. भवानिर्वेदः, ॥४३१॥ वसन्तः किं सुनिर्विण्णाः, किं वा नेति निवेद्यताम् ॥ ९ ॥ विमर्शेनोदितं वत्स!, निर्वेदो नास्ति देहिनाम् । अत्रापि वसतां नित्यं, तत्राकर्णय कारणम् ॥ १०॥ य एते कथितास्तुभ्यं, महामोहादिभूभुजः । अन्तरङ्गाः स्ववीर्येण, वशीकृतजगत्रयाः॥ ११ ॥ एतेषां कौशलं किश्चिदपूर्व जनमोहने । विद्यते तदशेनैते, निर्विद्यन्ते न नागराः ॥ १२ ॥ एते हि चरटप्राया, दु:खदाः शत्रवोऽतुलाः । महाहै मोहादयो वत्स!, भवचक्रनिवासिनाम् ॥ १३ ॥ तथापि प्रतिभासन्ते, तेषां मोहितचेतसाम् । यथते सुहृदोऽस्माकं, वत्सलाः सुखहेतवः ॥ १४ ॥ इदं च नगरं वत्स!, दुःखसङ्घातपूरितम् । तथाप्यत्र स्थिता लोका, मन्यन्ते सुखसागरम् ॥ १५ ॥ निश्चिन्ता निर्गमोपाये, वसनेनात्र मोदिताः । निवसन्ति सदा तुष्टा, महामोहादिबान्धवैः ॥ १६ ॥ योऽपि निर्गमनोपायं, भवचक्रात्प्रभाषते । तस्याप्येतेऽपि रुष्यन्ति, यथैष सुखपञ्चकः ॥ १७ ॥ तच्च तच्च प्रकुर्वन्ति, महायत्नेन सर्वथा । येनात्रैव भवत्येषां, वासः पापेन कर्मणा ॥ १८ ॥ तदेवं निजवीर्येण, महामोहादिशत्रुभिः । क्रोडीकृता न जानन्ति, किञ्चिदेते तपस्विनः ॥ १९॥ शब्दादिसुखसम्भोगं, तुच्छं दुःखात्मकं सदा । एते मनसि मन्यन्ते, यथेदममृतोपमम् ॥ २० ॥ ततोऽमी यावदेतेषां, प्रभवो वत्स! भूभुजः । भवचक्रे न निर्विण्णास्तावल्लोकाः कदाचन ॥ २१ ॥ प्रकर्षः प्राह यद्येवं, ततोऽमीषां दुरात्मनाम् । सदोन्मत्तकतुल्यानां, किमस्माकं विचिन्तया? ॥ २२ ॥ केवलं माम! सर्वेषां, महामोहादिभूभुजाम् । दर्शितं भवचक्रेऽत्र, मम वीर्य त्वया स्फुटम् ॥ २३ ॥ यस्त्वसौ वर्णितः पूर्व, महामोहमहत्तमः ।। ६ वष्टः कुदृष्टिपत्नीको, मिथ्यादर्शननामकः ॥ २४ ॥ तेन यद्भवचक्रेऽत्र, स्ववीर्येण विजृम्भितम् । तन्मेऽद्यापि त्वयाऽऽख्यातं, नापि संद र्शितं मम ।। २५॥ ततोऽहं द्रष्टुमिच्छामि, श्रोतुं च गुणरूपतः । तद्वशीभूतलोकानां, चरितं माम! साम्प्रतम् ॥ २६ ॥ विमर्शः प्राह नगरं, समस्तमिदमजसा । प्रायेण वर्तते तस्य, वशे नास्त्यत्र संशयः ॥ २७ ॥ तथाहि-यदिदं वर्णितं तेऽत्र, मया पुरचतुष्टयम् । RAMOROSCAM मिथ्यात्ववर्णनं ॥४३१॥ Jain Education For Private & Personel Use Only M ainelibrary.org

Loading...

Page Navigation
1 ... 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474