Book Title: Upmitibhava Prapancha Katha Purvarddha
Author(s): Siddharshi Gani, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 430
________________ उपमितौ च. ४-प्र. ॥ ४२६ ॥ Jain Education वीर्यं पुनरदोऽमुष्या, यदेषा देहवर्तिनी । सदा हि कुरुते रूपं दृष्टेरुद्वेगकारणम् ॥ २१४ ॥ खञ्जताकुण्टताकाण्यवामनत्व विवर्णताः । कुब्जत्वान्धत्ववाडव्यहीनाङ्गत्वादि (ति) दीर्घताः ॥ २१५ ॥ इत्याद्याः परिवारेऽस्या, वर्तन्ते वत्स ! दुर्जनाः । यत्सम्पर्कादियं हृष्टा, विल| सत्यतिलीलया ॥ २१६ ॥ अस्ति प्रयुक्ता तेनैव, नामनाम्ना सुरूपता । सुप्रसन्नेन तन्मूलबहिरङ्गनिमित्तजा ॥ २१७ ॥ तथाहि - शुभाहारविहाराद्यैः, प्रसीदन्तः कफादयः । हेतवो देहिनां देहे, जनयन्ति सुरूपताम् ॥ २९८ ॥ सा जनं भवचक्रेऽत्र, दृष्टेराहादकारणम् । प्रसन्नवर्णं पद्माक्षं, सुविभक्ताङ्गभूषणम् ॥ २१९ ॥ गजेन्द्रगामिनं रम्यं, सुराकारानुकारिणम् । करोति निजवीर्येण, लोकमोदनकारिणी ॥ ॥ २२० ॥ तस्या विपक्षभूतेयं, प्रकृत्यैव कुरूपता । तां हत्वाऽऽबिर्भवत्येषा, देहिदेहेषु योगिनी ॥ २२९ ॥ ततः सुरूपताहीनाः, | प्रादुर्भूतकुरूपताः । भवन्ति ते जना वत्स !, दृष्टेरुद्वेगकारिणः ॥ २२२ ॥ अनादेयाः स्वहीनत्वशङ्किता हास्यभूमयः । भवन्ति क्रीडनस्थानं, बालानां रूपगर्विणाम् ॥ २२३ ॥ निर्गुणाश्च भवन्त्येते, प्रायशो वामनादयः । आकृतौ च वसन्त्येते, प्रकृत्या निर्मला गुणाः ॥ २२४ ॥ विडम्बनकरी लोके, तदियं ते कुरूपता । निरूपिताऽधुना वत्स !, कथयामि दरिद्रताम् ॥ २२५ ॥ प्रयुक्ता तावदेषाऽपि, वत्स ! तेनैव पापिना । अन्तरायं पुरस्कृत्य, पापोदयचमूभृता ॥ २२६ ॥ प्रयुञ्जते पुनर्लोके, हेतवो ये बहिर्गताः । एनां दरिद्रतां तात !, तानहं ते निवेदये ॥ २२७ ॥ जलज्वलनलुण्टाकराजदायादतस्कराः । मद्यद्यूतादिभोगित्ववेश्याव्यसनदुर्नयाः ॥ २२८ ॥ ये चान्ये कुर्वते केचिद्धनहानिं वयस्थिकाम् । अस्यास्ते हेतवः सर्वे, वत्स ! ज्ञेयाः प्रयोजकाः ॥ २२९ ॥ युग्मम् | केवलं तत्त्वतस्तेऽपि, सान्तरायं चमूभृतम् । पापोदयाख्यं कुर्वन्ति, प्रहृमस्याः प्रयोजकम् ॥ २३० ॥ दुराशापाशसंमूढं, धनगन्धविवर्जितम् । वीर्येण कुरुते लोकमेषा तातः ! दरिद्रता ॥ २३९ ॥ दैन्यं परिभवो मौढ्यं, प्रायशो बह्नपत्यता । हृदयन्यूनता याच्या, लाभाभावो दुरिच्छता ॥ २३२ ॥ बुभुक्षारतिसन्तापाः, For Private & Personal Use Only दरिद्रतास्वरूपं ॥ ४२६ ॥ Dainelibrary.org

Loading...

Page Navigation
1 ... 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474