Book Title: Upmitibhava Prapancha Katha Purvarddha
Author(s): Siddharshi Gani, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 404
________________ उपमिती च. ४-प्र. रिपुकम्पनगृहे पुत्रजन्ममिथ्याभि ॥४० ॥ मानः पणमालाः संपादितानि भूतिरक्षाविधानानि निर्वतिता गौरसिद्धार्थकैनन्दावर्तशतपत्रलेखाः निवेशिताः सितचामरधारिण्यो विलासिन्यः, I ततः प्रचलिता वेगेनास्थानस्थायिनो भूपतेः सुतजन्ममहोत्सवं निवेदयितुं प्रियंवदिका, कथं ?-रभसोद्दामविसंस्थुलगमनं, गमनस्खलितसु- नूपुरचरणम् । चरणजलत्तोत्तालितहृदयं, हृदयविकम्पस्फुरितनितम्बम् ॥ १॥ स्फुरितनितम्बनिनादितरसनं, रसनालग्नपयोधरसिचयम् । सिचयनिपातितलजितवदनं, वदनशशाङ्कोद्योतितभुवनम् ॥ २ ॥ अपि च नितम्बबिम्बवक्षोजदुर्वारभरनिःसहा । तथापि रभसाद्वाला, वेगाद्धावति सा तदा ।। ३ ।। निवेदिते तया राजपुत्रजन्ममहोत्सवे । आनन्दपुलकोद्भेदनिर्भरः समपद्यत ॥ ४॥ अत्रान्तरे प्रविष्टो मिध्याभिमानः, ततोऽधिष्ठितमनेन रिपुकम्पनशरीरं, ततश्च-तेनावष्टब्धचित्तोऽसौ, तदानीं रिपुकम्पनः । न मानसे न वा देहे, नापि माति जगत्रये ॥ १॥ चिन्तितं च पुनस्तेन, विपर्यासितचेतसा । अहो कृतार्थो वर्तेऽहमहो वंशसमुन्नतिः ॥ २॥ अहो देवप्रसादो मे, अहो लक्षणयुक्तता । अहो राज्यमहो वर्गः, संपन्नं जन्मनः फलम् ॥ ३ ॥ अहो जगति जातोऽहमहो कल्याणमालिका । अहो मे धन्यता सर्वमहो सिद्धं समीहितम् ॥ ४ ॥ अपुत्रेण मया योऽयमुपयाचितकोटिभिः । प्रार्थितः सोऽद्य संपन्नो, यस्य मे कुलनन्दनः ॥ ५॥ ततः | कटककेयूरहारकुण्डलमौलयः । निवेदिकायै लक्षण, दीनाराणां सहार्पिताः ॥ ६॥ उल्लसत्सर्वगात्रेण, हर्षगद्गदभाषिणा । प्रकृतीनां समा| दिष्टः, सुतजन्ममहोत्सवः ॥ ७ ॥ ततो नरपतेर्वाक्यं, श्रुत्वा मत्रिमहत्तमैः । क्षणेन सदने तत्र, बत किं किं विनिर्मितम् ॥ ८॥ पव| ननिहतनीरसङ्घातमध्यस्थितानेकयादःसमूहोर्ध्वपुच्छच्छटाघातसंपन्नकल्लोलमालाकुले । यादृशः स्यान्निनादो महानीरधौ तत्र गेहे समन्तादथो तादृशस्तूर्यसङ्घातघोषः क्षणादुत्थितः ॥९॥ तथा-प्रवरमलयसम्भवक्षोदकश्मीरजातागुरुस्तोमकस्तूरिकापूरकर्पूरनीरप्रवाहोक्षसंपन्नसत्कर्दमामोदसन्दोहनिष्यन्दबिन्दुप्रपूरेण संपादिताशेषजन्तुप्रमोदं तथा रत्नसङ्घातविद्योतनिर्नष्टसूर्यप्रभाजालसञ्चारमालोक्यते तत्तदा मन्दिरम् ॥१०॥ ॥४० ॥ Jain Education For Private Personel Use Only

Loading...

Page Navigation
1 ... 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474