________________
उपमिती
च. ४-प्र.
रिपुकम्पनगृहे पुत्रजन्ममिथ्याभि
॥४०
॥
मानः
पणमालाः संपादितानि भूतिरक्षाविधानानि निर्वतिता गौरसिद्धार्थकैनन्दावर्तशतपत्रलेखाः निवेशिताः सितचामरधारिण्यो विलासिन्यः, I ततः प्रचलिता वेगेनास्थानस्थायिनो भूपतेः सुतजन्ममहोत्सवं निवेदयितुं प्रियंवदिका, कथं ?-रभसोद्दामविसंस्थुलगमनं, गमनस्खलितसु- नूपुरचरणम् । चरणजलत्तोत्तालितहृदयं, हृदयविकम्पस्फुरितनितम्बम् ॥ १॥ स्फुरितनितम्बनिनादितरसनं, रसनालग्नपयोधरसिचयम् । सिचयनिपातितलजितवदनं, वदनशशाङ्कोद्योतितभुवनम् ॥ २ ॥ अपि च नितम्बबिम्बवक्षोजदुर्वारभरनिःसहा । तथापि रभसाद्वाला, वेगाद्धावति सा तदा ।। ३ ।। निवेदिते तया राजपुत्रजन्ममहोत्सवे । आनन्दपुलकोद्भेदनिर्भरः समपद्यत ॥ ४॥ अत्रान्तरे प्रविष्टो मिध्याभिमानः, ततोऽधिष्ठितमनेन रिपुकम्पनशरीरं, ततश्च-तेनावष्टब्धचित्तोऽसौ, तदानीं रिपुकम्पनः । न मानसे न वा देहे, नापि माति जगत्रये ॥ १॥ चिन्तितं च पुनस्तेन, विपर्यासितचेतसा । अहो कृतार्थो वर्तेऽहमहो वंशसमुन्नतिः ॥ २॥ अहो देवप्रसादो मे, अहो लक्षणयुक्तता । अहो राज्यमहो वर्गः, संपन्नं जन्मनः फलम् ॥ ३ ॥ अहो जगति जातोऽहमहो कल्याणमालिका । अहो मे धन्यता सर्वमहो सिद्धं समीहितम् ॥ ४ ॥ अपुत्रेण मया योऽयमुपयाचितकोटिभिः । प्रार्थितः सोऽद्य संपन्नो, यस्य मे कुलनन्दनः ॥ ५॥ ततः | कटककेयूरहारकुण्डलमौलयः । निवेदिकायै लक्षण, दीनाराणां सहार्पिताः ॥ ६॥ उल्लसत्सर्वगात्रेण, हर्षगद्गदभाषिणा । प्रकृतीनां समा| दिष्टः, सुतजन्ममहोत्सवः ॥ ७ ॥ ततो नरपतेर्वाक्यं, श्रुत्वा मत्रिमहत्तमैः । क्षणेन सदने तत्र, बत किं किं विनिर्मितम् ॥ ८॥ पव| ननिहतनीरसङ्घातमध्यस्थितानेकयादःसमूहोर्ध्वपुच्छच्छटाघातसंपन्नकल्लोलमालाकुले । यादृशः स्यान्निनादो महानीरधौ तत्र गेहे समन्तादथो तादृशस्तूर्यसङ्घातघोषः क्षणादुत्थितः ॥९॥ तथा-प्रवरमलयसम्भवक्षोदकश्मीरजातागुरुस्तोमकस्तूरिकापूरकर्पूरनीरप्रवाहोक्षसंपन्नसत्कर्दमामोदसन्दोहनिष्यन्दबिन्दुप्रपूरेण संपादिताशेषजन्तुप्रमोदं तथा रत्नसङ्घातविद्योतनिर्नष्टसूर्यप्रभाजालसञ्चारमालोक्यते तत्तदा मन्दिरम् ॥१०॥
॥४०
॥
Jain Education
For Private
Personel Use Only