SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ उपमितौ "प्रियबान्धवान् जनयन्त्यकाण्डविडुरं समाचरन्ति समस्तपातकानि भवन्ति सर्वजगत्सन्तापकाः निपात्यन्ते निष्प्रयोजनं मृत्वा च गच्छन्ति च. ४-प्र. "दुर्गती, किमत्राश्चर्यमिति, किं च-मद्ये च पारदार्ये च, ये रताः क्षुद्रजन्तवः । तेषामेवंविधानर्थान् , वत्स! कः प्रष्टुमर्हति ? ॥१॥ "मद्यं हि निन्दितं सद्भिर्मद्यं कलहकारणम् । मद्यं सर्वापदां मूलं, मद्यं पापशताकुलम् ॥२॥ न त्यजेब्यसनं मये, पारदार्ये च यो नरः। ॥३९९॥ “यथाऽयं वत्स! लोलाक्षस्तथाऽसौ लभते क्षयम् ॥ ३ ॥ मद्यं च पारदार्य च, यः पुमास्तात! मुञ्चति । स पण्डितः स पुण्यात्मा, स "धन्यः स कृतार्थकः ॥४॥” प्रकर्षणोक्तं—एवमेतन्नास्त्यत्र संशयः, ततस्तयोस्तत्र नगरे विचरतोर्गतानि कतिचिदिनानि, अन्यदा मानवावासपुरे राजकुलासन्ने दृष्टस्ताभ्यां पुरुषः, प्रकर्षेणोक्तं-माम! स एष मिथ्याभिमानो दृश्यते, विमर्शेनोक्तं सत्यं, स एवायं, प्रकर्षः प्राह-ननु राजसचित्तनगरे किलाविचलोऽयं, तत् कथमिहागतः?, विमर्शेनोक्तं–एवं नाम मकरध्वजस्योपरि सप्रसादो महामोहराजो रिपुकम्पयेनास्य राज्ये यदचलं निजबलं सबालं तदप्यानीतं, केवलं कामरूपितयाऽयं मिथ्याभिमानो मतिमोहश्च यद्यपीहानीतौ दृश्येते तथापि नगृहे पुत्रतयोरेव राजसचित्ततामसचित्तपुरयोः परमार्थतस्तिष्ठन्तौ वेदितव्यौ, प्रकर्षणोक्तं-माम!, कुत्र पुनरेषोऽधुना गन्तुं प्रवृत्तः१, विमर्शेनोक्तं जन्ममि थ्याभि-भद्राकर्णय, योऽसौ दृष्टस्त्वया रिपुकम्पनः स निहते लोलाक्षेऽधुना राज्येऽभिषिक्तः, तस्य चेदं भवनं, अतोऽयं मिथ्याभिमानः मानः केनचित् कारणेनेदं राजसदनं प्रवेष्टुकाम इव लक्ष्यते, प्रकर्षः प्राह-ममापीदं नरपतिनिकेतनं दर्शयतु मामः, विमर्शेनोक्तं—एवं करोमि, ततः प्रविष्टौ तौ तत्र नृपतिगेहे ॥ इतश्च तस्य रिपुकम्पनभूपतेरस्ति द्वितीया मतिकलिता नाम महादेवी, सा च तस्मिन्नेव समये ॥३९९॥ ददारकं प्रसूता, अथ तत्र जातमात्रे राजसूनौ भास्करोदये विकसितमिव तामरसं व्यपगततिमिरनिकरमिव गगनतलं विनिद्रमिव सुन्दर-18 जननयनयुगलं भुवनमिव स्वधर्मकर्मव्यापारपरायणं तद्राजभवनं राजितुं प्रवृत्तं, कथं ?, विरचिता मणिप्रदीपनिवहाः विस्तारिता मङ्गलद Jain Education For Private & Personal Use Only MOMainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy