SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ उपमितौ "प्रियबान्धवान् जनयन्त्यकाण्डविडुरं समाचरन्ति समस्तपातकानि भवन्ति सर्वजगत्सन्तापकाः निपात्यन्ते निष्प्रयोजनं मृत्वा च गच्छन्ति च. ४-प्र. "दुर्गती, किमत्राश्चर्यमिति, किं च-मद्ये च पारदार्ये च, ये रताः क्षुद्रजन्तवः । तेषामेवंविधानर्थान् , वत्स! कः प्रष्टुमर्हति ? ॥१॥ "मद्यं हि निन्दितं सद्भिर्मद्यं कलहकारणम् । मद्यं सर्वापदां मूलं, मद्यं पापशताकुलम् ॥२॥ न त्यजेब्यसनं मये, पारदार्ये च यो नरः। ॥३९९॥ “यथाऽयं वत्स! लोलाक्षस्तथाऽसौ लभते क्षयम् ॥ ३ ॥ मद्यं च पारदार्य च, यः पुमास्तात! मुञ्चति । स पण्डितः स पुण्यात्मा, स "धन्यः स कृतार्थकः ॥४॥” प्रकर्षणोक्तं—एवमेतन्नास्त्यत्र संशयः, ततस्तयोस्तत्र नगरे विचरतोर्गतानि कतिचिदिनानि, अन्यदा मानवावासपुरे राजकुलासन्ने दृष्टस्ताभ्यां पुरुषः, प्रकर्षेणोक्तं-माम! स एष मिथ्याभिमानो दृश्यते, विमर्शेनोक्तं सत्यं, स एवायं, प्रकर्षः प्राह-ननु राजसचित्तनगरे किलाविचलोऽयं, तत् कथमिहागतः?, विमर्शेनोक्तं–एवं नाम मकरध्वजस्योपरि सप्रसादो महामोहराजो रिपुकम्पयेनास्य राज्ये यदचलं निजबलं सबालं तदप्यानीतं, केवलं कामरूपितयाऽयं मिथ्याभिमानो मतिमोहश्च यद्यपीहानीतौ दृश्येते तथापि नगृहे पुत्रतयोरेव राजसचित्ततामसचित्तपुरयोः परमार्थतस्तिष्ठन्तौ वेदितव्यौ, प्रकर्षणोक्तं-माम!, कुत्र पुनरेषोऽधुना गन्तुं प्रवृत्तः१, विमर्शेनोक्तं जन्ममि थ्याभि-भद्राकर्णय, योऽसौ दृष्टस्त्वया रिपुकम्पनः स निहते लोलाक्षेऽधुना राज्येऽभिषिक्तः, तस्य चेदं भवनं, अतोऽयं मिथ्याभिमानः मानः केनचित् कारणेनेदं राजसदनं प्रवेष्टुकाम इव लक्ष्यते, प्रकर्षः प्राह-ममापीदं नरपतिनिकेतनं दर्शयतु मामः, विमर्शेनोक्तं—एवं करोमि, ततः प्रविष्टौ तौ तत्र नृपतिगेहे ॥ इतश्च तस्य रिपुकम्पनभूपतेरस्ति द्वितीया मतिकलिता नाम महादेवी, सा च तस्मिन्नेव समये ॥३९९॥ ददारकं प्रसूता, अथ तत्र जातमात्रे राजसूनौ भास्करोदये विकसितमिव तामरसं व्यपगततिमिरनिकरमिव गगनतलं विनिद्रमिव सुन्दर-18 जननयनयुगलं भुवनमिव स्वधर्मकर्मव्यापारपरायणं तद्राजभवनं राजितुं प्रवृत्तं, कथं ?, विरचिता मणिप्रदीपनिवहाः विस्तारिता मङ्गलद Jain Education For Private & Personal Use Only MOMainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy