________________
उपमितौ
रिपुकम्प नगृहे पुत्रजन्ममिथ्याभि
॥४०१॥
मानः
बहुनाटितकुब्जकवामनकं, प्रविधूर्णितकञ्चुकिहासनकम् । जनदापितरत्नसमूहचितं, त्रुटितातुलमौक्तिकहारभृतम् ॥ ११ ॥ लसदुद्भटवेपभटाकुलकं, ललनाजनलासविलासयुतम् । वरखाद्यकपानकतुष्टजनं, जनितं प्रमदादिति वर्धनकम् ॥ १२ ॥ अथ तादृशि वर्धनके निखिले, प्रमदेन प्रनृत्यति भृत्यगणे । अतिहर्षवशेन कृतोर्श्वभुजः, स्वयमेव ननर्त चिरं स नृपः ॥ १३ ॥ ततस्तत्तादृशं दृष्ट्वा, महासंम| गुन्दलम् । प्रकर्षः संशयापन्नः, प्रत्याह निजमातुलम् ॥ १३ ॥ निवेदयेदं मे माम!, महदन कुतूहलम् । किमितीमे रटन्त्युच्चै निर्वादितमुखा जनाः ॥ १४ ॥ अत्यर्थमुल्ललन्ते च, किमर्थमिति मोदिताः ? । किं चामी मृत्तिकाभारं, निजाङ्गेषु वहन्ति ? भोः! ॥ १५॥ चर्मावनद्धकाष्ठानि, दृढमास्फोटयन्ति किम् ? । विष्ठासंभारमुक्तोल्यो, मन्दं मन्दं चलन्ति किम् ? ॥ १६ ॥ किंवैष सदनस्यास्य, नायकः पृथिवीपतिः । बालहास्यकरं मूढः, करोत्यात्मविडम्बनम् ? ॥ १७ ॥ तदत्र कारणं माम!, यावन्नो लक्षितं मया । इदं तावन्ममाभाति, महाकौतुककारणम् ॥ १८ ॥ विमर्शः प्राह ते वत्स, कथ्यतेऽत्र निबन्धनम् । यदस्य सकलस्यापि, वृत्तान्तस्य प्रवर्तकम् ॥ १९॥ पश्यतस्ते प्रविष्टोऽत्र, य एष नृपमन्दिरे । मिथ्याभिमानस्तेनेदं, तात! सर्व विजृम्भितम् ॥ २० ॥ अयं हि राजा जातो मे, सूनुरेवं विचिन्तयन् । न माति देहे नो गेहे, न पुरे न जगत्रये ॥ २१ ॥ ततो मिथ्याभिमानेन, विह्वलीकृतचेतसा । आत्मा च सकलश्वेत्थं, लोकोऽनेन विडम्बितः ।। २२ ।। न चेदं लक्षयत्येष, नूनमात्मविडम्बनम् । यतो मिथ्याभिमानेन, वराकं मन्यते जगत् ॥ २३ ॥ प्रकर्षः प्राह यद्येवं, ततोऽस्य परमो रिपुः । माम! मिथ्याभिमानोऽयं, यः खल्वेवं विडम्बकः ॥ २४ ॥ विमर्शः प्राह को वाऽत्र ?, सं
शयो भद्र ! वस्तुनि । निश्चितं रिपुरेवायं, बन्धुरस्य प्रभासते ॥२५॥ प्रकर्षः प्राह यद्येवं, ततो योऽस्य वशं गतः । स एष नृपतिर्माम!, ४ कीदृशो रिपुकम्पनः ? ॥ २६ ॥ विमर्शेनोदितं वत्स!, न भावरिपुकम्पनः । किंतु-बहिर्वैरिषु शूरोऽयं, तेनेत्थमभिधीयते ॥ २७ ॥
॥४०१॥
Jain Edad
For Private & Personel Use Only
Wrjainelibrary.org