SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ उपमितौ रिपुकम्प नगृहे पुत्रजन्ममिथ्याभि ॥४०१॥ मानः बहुनाटितकुब्जकवामनकं, प्रविधूर्णितकञ्चुकिहासनकम् । जनदापितरत्नसमूहचितं, त्रुटितातुलमौक्तिकहारभृतम् ॥ ११ ॥ लसदुद्भटवेपभटाकुलकं, ललनाजनलासविलासयुतम् । वरखाद्यकपानकतुष्टजनं, जनितं प्रमदादिति वर्धनकम् ॥ १२ ॥ अथ तादृशि वर्धनके निखिले, प्रमदेन प्रनृत्यति भृत्यगणे । अतिहर्षवशेन कृतोर्श्वभुजः, स्वयमेव ननर्त चिरं स नृपः ॥ १३ ॥ ततस्तत्तादृशं दृष्ट्वा, महासंम| गुन्दलम् । प्रकर्षः संशयापन्नः, प्रत्याह निजमातुलम् ॥ १३ ॥ निवेदयेदं मे माम!, महदन कुतूहलम् । किमितीमे रटन्त्युच्चै निर्वादितमुखा जनाः ॥ १४ ॥ अत्यर्थमुल्ललन्ते च, किमर्थमिति मोदिताः ? । किं चामी मृत्तिकाभारं, निजाङ्गेषु वहन्ति ? भोः! ॥ १५॥ चर्मावनद्धकाष्ठानि, दृढमास्फोटयन्ति किम् ? । विष्ठासंभारमुक्तोल्यो, मन्दं मन्दं चलन्ति किम् ? ॥ १६ ॥ किंवैष सदनस्यास्य, नायकः पृथिवीपतिः । बालहास्यकरं मूढः, करोत्यात्मविडम्बनम् ? ॥ १७ ॥ तदत्र कारणं माम!, यावन्नो लक्षितं मया । इदं तावन्ममाभाति, महाकौतुककारणम् ॥ १८ ॥ विमर्शः प्राह ते वत्स, कथ्यतेऽत्र निबन्धनम् । यदस्य सकलस्यापि, वृत्तान्तस्य प्रवर्तकम् ॥ १९॥ पश्यतस्ते प्रविष्टोऽत्र, य एष नृपमन्दिरे । मिथ्याभिमानस्तेनेदं, तात! सर्व विजृम्भितम् ॥ २० ॥ अयं हि राजा जातो मे, सूनुरेवं विचिन्तयन् । न माति देहे नो गेहे, न पुरे न जगत्रये ॥ २१ ॥ ततो मिथ्याभिमानेन, विह्वलीकृतचेतसा । आत्मा च सकलश्वेत्थं, लोकोऽनेन विडम्बितः ।। २२ ।। न चेदं लक्षयत्येष, नूनमात्मविडम्बनम् । यतो मिथ्याभिमानेन, वराकं मन्यते जगत् ॥ २३ ॥ प्रकर्षः प्राह यद्येवं, ततोऽस्य परमो रिपुः । माम! मिथ्याभिमानोऽयं, यः खल्वेवं विडम्बकः ॥ २४ ॥ विमर्शः प्राह को वाऽत्र ?, सं शयो भद्र ! वस्तुनि । निश्चितं रिपुरेवायं, बन्धुरस्य प्रभासते ॥२५॥ प्रकर्षः प्राह यद्येवं, ततो योऽस्य वशं गतः । स एष नृपतिर्माम!, ४ कीदृशो रिपुकम्पनः ? ॥ २६ ॥ विमर्शेनोदितं वत्स!, न भावरिपुकम्पनः । किंतु-बहिर्वैरिषु शूरोऽयं, तेनेत्थमभिधीयते ॥ २७ ॥ ॥४०१॥ Jain Edad For Private & Personel Use Only Wrjainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy