Book Title: Upmitibhava Prapancha Katha Purvarddha
Author(s): Siddharshi Gani, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 419
________________ उपमिती हर्षशोकवृत्तान्तः च. ४-अ. ॥४१५॥ नम् । उच्छृङ्खला पुनर्वत्स!, तमेषा बन्धयत्यलम् ॥ ७॥ तदस्य विकथामूलं, दुर्भाष्यव्यसने फलम् । इदमीशमापन्नं, परलोके च दु-18 गतिः॥८॥ अत्रान्तरे प्रकर्षेण, राजमार्गे निपातिता । दृष्टिदृष्टश्च तत्रैकः, शुक्लवर्णाम्बरो नरः ॥ ९॥ ततः पप्रच्छ तं वीक्ष्य, क एष ते इति मातुलम् । तेनोक्तं वत्स! हर्षोऽयं, रागकेसरिसैनिकः॥ १०॥ अस्त्यत्र मानवावासे, बासवो नाम वाणिजः । इदं च दृश्यतेऽभ्यणे, तस्य गेहं महाधनम् ॥ ११ ॥ बालकाले वियुक्तश्च, वयस्योऽत्यन्तवल्लभः । धनदत्तः समायातो, वासवानन्ददायकः ॥ १२॥ इदं कारणमुद्दिश्य, भवनेऽत्र प्रवेक्ष्यति । अयं हर्षः प्रविष्टश्च, पश्य किं किं करिष्यति ॥ १३ ॥ ततो विस्फारिताक्षोऽसौ, प्रकर्षस्तनिरीक्षते । इतश्च वासवस्तेन, धनदत्तेन मीलितः ।। १४ ॥ ततः प्रविष्टस्तदेहे, स हर्षः सकुटुम्बके । संजातं च वणिग्गेहं, बृहदानन्दसुन्दरम् ॥ १५ ॥ आहूता बान्धवाः सर्वे, प्रवृत्तश्च महोत्सवः । ततो गायन्ति नृत्यन्ति, वादितानन्दमर्दलाः ॥ १६ ॥ अपि चवरभूषणमुज्वलवेषधरं, प्रमदोद्धुरखादनपानपरम् । धनदत्तसमागमजातसुखं, तदभूदथ वासवगेहसुखम् ।। १७ ॥ अथ तादृशि विस्म| यसजनके, क्षणमात्रविवर्धितवर्धनके । निजमाममवोचत बुद्धिसुतः, प्रविलोकनकौतुकतोषयुतः ॥ १८ ॥ यदिदं वेल्लते माम!, सर्वमर्दवितर्दकम् । वासवीयगृहं तत्कि, तेन हर्षेण नाटितम् ॥ १९ ॥ विमर्शेनोदितं-वत्स!, साधु साधु विनिश्चितम् । अकाण्डसदनक्षोभे, हर्ष एवात्र कारणम् ॥ २०॥ अत्रान्तरेऽतिबीभत्सः, कृष्णवर्णधरो नरः । दृष्टो द्वारि प्रकर्षेण, तस्य वासवसद्मनः ॥ २१ ॥ ततस्तेनो|दितं माम!, क एष पुरुषाधमः । विमर्शेनोक्तम्-वत्स! शोकवयस्योऽयं, विषादो नाम दारुणः ।। २२ ॥ यश्चैष पथिकः कश्चि प्रवेष्टुमिह वाञ्छति । प्रविष्टेऽत्र विषादोऽयं, भवनेऽत्र प्रवेक्ष्यते ॥ २३ ॥ ततः प्रविश्य पान्थेन, तेन वासवसन्निधौ । एकान्ते वासवस्यैव, गुह्यं किञ्चिन्निवेदितम् ॥ २४ ॥ अत्रान्तरे प्रविष्टोऽसौ, विषादस्तच्छरीरके । मूर्छया पतितश्चासौ, वासवो नष्टचेतनः ॥ २५ ॥ SAX*XXXR0**RASA ॥४१५॥ Join Education For Private Personel Use Only inelibrary.org

Loading...

Page Navigation
1 ... 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474