________________
उपमिती
हर्षशोकवृत्तान्तः
च.
४-अ.
॥४१५॥
नम् । उच्छृङ्खला पुनर्वत्स!, तमेषा बन्धयत्यलम् ॥ ७॥ तदस्य विकथामूलं, दुर्भाष्यव्यसने फलम् । इदमीशमापन्नं, परलोके च दु-18 गतिः॥८॥ अत्रान्तरे प्रकर्षेण, राजमार्गे निपातिता । दृष्टिदृष्टश्च तत्रैकः, शुक्लवर्णाम्बरो नरः ॥ ९॥ ततः पप्रच्छ तं वीक्ष्य, क एष ते इति मातुलम् । तेनोक्तं वत्स! हर्षोऽयं, रागकेसरिसैनिकः॥ १०॥ अस्त्यत्र मानवावासे, बासवो नाम वाणिजः । इदं च दृश्यतेऽभ्यणे, तस्य गेहं महाधनम् ॥ ११ ॥ बालकाले वियुक्तश्च, वयस्योऽत्यन्तवल्लभः । धनदत्तः समायातो, वासवानन्ददायकः ॥ १२॥ इदं कारणमुद्दिश्य, भवनेऽत्र प्रवेक्ष्यति । अयं हर्षः प्रविष्टश्च, पश्य किं किं करिष्यति ॥ १३ ॥ ततो विस्फारिताक्षोऽसौ, प्रकर्षस्तनिरीक्षते । इतश्च वासवस्तेन, धनदत्तेन मीलितः ।। १४ ॥ ततः प्रविष्टस्तदेहे, स हर्षः सकुटुम्बके । संजातं च वणिग्गेहं, बृहदानन्दसुन्दरम् ॥ १५ ॥ आहूता बान्धवाः सर्वे, प्रवृत्तश्च महोत्सवः । ततो गायन्ति नृत्यन्ति, वादितानन्दमर्दलाः ॥ १६ ॥ अपि चवरभूषणमुज्वलवेषधरं, प्रमदोद्धुरखादनपानपरम् । धनदत्तसमागमजातसुखं, तदभूदथ वासवगेहसुखम् ।। १७ ॥ अथ तादृशि विस्म| यसजनके, क्षणमात्रविवर्धितवर्धनके । निजमाममवोचत बुद्धिसुतः, प्रविलोकनकौतुकतोषयुतः ॥ १८ ॥ यदिदं वेल्लते माम!, सर्वमर्दवितर्दकम् । वासवीयगृहं तत्कि, तेन हर्षेण नाटितम् ॥ १९ ॥ विमर्शेनोदितं-वत्स!, साधु साधु विनिश्चितम् । अकाण्डसदनक्षोभे, हर्ष एवात्र कारणम् ॥ २०॥ अत्रान्तरेऽतिबीभत्सः, कृष्णवर्णधरो नरः । दृष्टो द्वारि प्रकर्षेण, तस्य वासवसद्मनः ॥ २१ ॥ ततस्तेनो|दितं माम!, क एष पुरुषाधमः । विमर्शेनोक्तम्-वत्स! शोकवयस्योऽयं, विषादो नाम दारुणः ।। २२ ॥ यश्चैष पथिकः कश्चि
प्रवेष्टुमिह वाञ्छति । प्रविष्टेऽत्र विषादोऽयं, भवनेऽत्र प्रवेक्ष्यते ॥ २३ ॥ ततः प्रविश्य पान्थेन, तेन वासवसन्निधौ । एकान्ते वासवस्यैव, गुह्यं किञ्चिन्निवेदितम् ॥ २४ ॥ अत्रान्तरे प्रविष्टोऽसौ, विषादस्तच्छरीरके । मूर्छया पतितश्चासौ, वासवो नष्टचेतनः ॥ २५ ॥
SAX*XXXR0**RASA
॥४१५॥
Join Education
For Private Personel Use Only
inelibrary.org