SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ उपमितौ च. ४-प्र. हर्षशोकवृत्तान्त: ॥४१६॥ हा हा किमेतदित्युच्चैर्विलपन्निखिलो जनः । ततः समागतस्तस्य, निकटे भयविह्वलः ॥ २६ ॥ अथ वायुप्रदानाद्यैः, पुनः संजातचेतनः। प्रलापं कर्तुमारब्धः, सविषादः स वासवः ॥ २७ ॥ कथम् !-हा पुत्र! तात वत्सातिसुकुमारशरीरक । ईदृशी तव संजाता, कावस्था मम कर्मणा ॥ २८ ॥ निर्गतोऽसि ममापुण्यैर्वत्स! वारयतो मम । देवेन निघृणेनेदं, तव जात! विनिर्मितम् ॥ २९॥ हा ह-I तोऽस्मि निराशोऽस्मि, मुषितोऽस्मि विलक्षणः । एवं व्यवस्थिते वत्स!, त्वयि किं मम जीवति ॥ ३०॥ यावच्च प्रलपत्येवं, स पुत्रस्नेहकातरः । तावद्विषादः सर्वेषु, प्रविष्टः स्वजनेष्वपि ॥ ३१ ॥ अथ ते तस्य माहात्म्यात्सर्वे वासवबान्धवाः । हाहारवपरा गाद, प्रलापं कर्तुमुद्यताः ॥ ३२ ॥ ततश्च-क्षणेन विगतानन्दं, दीनविह्वलमानुषम् । रुदन्नारीजनं मूढ, जातं वासवमन्दिरम् ।। ३३ ॥ ततस्तत्तादृशं दृष्ट्वा, प्रकर्षः प्राह मातुलम् । किमिदं माम! संजातं, गृहे तु प्रेक्षणान्तरम् ? ॥ ३४ ॥ विमर्शः प्राह तत्तुभ्यमादावेव निवेदितम् । मया यथाऽन्तरायत्ता, बहिरङ्गा इमे जनाः ॥ ३५॥ ततश्चेदं तथा पूर्व, हर्षेण प्रविनाटितम् । अधुना नाटयत्येवं, विषादोऽसौ वराककम् ॥ ३६ ॥ तदत्र भवने लोकाः, किं कुर्वन्तु तपस्विनः ?। ये हि हर्षविषादाभ्यां, क्षणार्धेन विनाटिताः ।। ३७ ॥ प्रकर्षः प्राह किं गुह्यं, कर्णाभ्यर्णविवर्तिना । अनेन वासवस्यास्य, पुरुषेण निवेदितम् ? ॥ ३८ ॥ विमर्शनोदितं वत्स!, समाकर्णय साम्प्रतम् । अस्त्यस्य वर्धनो नाम, पुत्रो हृदयवल्लभः ।। ३९ ।। स चैक एव पुत्रोऽस्य, यौवनस्थो मनोहरः । उपयाचितकोटीभिर्जातो विनयतत्परः ॥४०॥ अनेन वार्यमाणोऽपि, स धनार्जनकाम्यया । प्रविधाय महासार्थ, गतो देशान्तरे पुरा ॥४१॥ स चोपायं धनं भूरि, स्वदेशागमकामुकः । कादम्बर्या महाटव्यां, गृहीतो वत्स! तस्करैः ॥ ४२ ॥ विलुप्तं धनसर्वस्वं, हतः सार्थः सबान्धवः । बद्धा गृहीता बन्द्यश्च, तस्करैर्धनकामिभिः ॥ ४३ ॥ तासां मध्ये गृहीतश्च, वर्धनः क्रूरकर्मभिः । स सार्थवाह इत्येवंवादिभिर्भद्र! तस्करैः॥४४॥ HARSHAN C ॥४१६॥ Jain Education Interi For Private & Personel Use Only linelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy