________________
उपमिती च. ४-प्र.
॥४१४॥
OSHIRISHA MASCARIASG
पुष्पमेतद्विभाव्यताम् ॥ ५५ ॥ फलं तु नरके घोरे, स्यादेवंविधकर्मणाम् । तथापि मूढाः खादन्ति, मांसं हिंसन्ति देहिनः ॥५६॥ इतश्च राजपुरुषैर्जिह्वामुत्पाट्य दारुणैः । तप्तं तानं नरः कश्चित्पाव्यमानो निरीक्षितः॥ ५७ ॥ ततो दयापरीतात्मा, प्रकर्षः प्राह मातुलम् ।हा हा किमेष पुरुषो, निघृणैर्माम! पीड्यते ? ॥ ५८ ॥ विमर्शेनोक्तं-भद्राकर्णय, अयं पुरुषोऽत्रैव मानवावासान्तर्भूते चणकपुरे वा
विकथास्तव्यो महाधनः सुमुखो नाम सार्थवाहः, अयं च बालकालादारभ्य वाक्पारुष्यव्यसनी, ततो लोकैर्गुणनिष्पन्नमस्य दुर्मुख इति नाम | प्रतिष्ठितं, प्रकृत्यैव चास्य प्रतिभासते स्त्रीकथा रोचते भक्तकथा मनोऽभीष्टा राजकथा हृदयिता देशकथा, सर्वथा जल्पे सति न कथचिन्निजतुण्डं धारयितुं पारयति । इतश्च चणकपुराधिपतिरेव तीव्रो नाम राजा गतो रिपूणामुपरि विक्षेपेण लग्नमायोधनं जिता रि-17 पवः, इतश्च निर्गते तस्मिन्नास्थायिकायां प्रस्तुताऽनेन राजकथा यदुत-प्रबलास्ते रिपवः, पराभविष्यन्ति राजानं, आगमिष्यन्ति ते पुरलुण्टनार्थ, ततो यथाशक्त्या पलायध्वं यूयं, तदाकर्ण्य नष्टं समस्तं पुरं, समागतो राजा, दृष्टं तन्निरुद्वसं चणकपुरं, किमेतदिति पृष्टमनेन, कथितः केनचिब्यतिकरः, कुपितो दुर्मुखस्योपरि तीव्रनरेन्द्रः, ततः पुनरावासिते पुरे प्रख्याप्य तं दुर्वचनभाषणलक्षणमपराधं | पौराणामेवंविधोऽस्य दण्डो निर्वतितो राक्षेति । प्रकर्षेणोदितं माम!, महाकष्टकमीदृशम् । यहुर्भाषणमात्रेण, संप्राप्तोऽयं वराककः॥१॥18॥ मातुलेनोदितं वत्स!, विकथाऽऽसक्तचेतसाम् । अनियन्त्रिततुण्डानां, कियदेतदुरात्मनाम् ? ॥२॥ इयं हि कुरुते वैरं, देहिनां निर्निमित्तकम् । विधत्ते जनसन्तापं, मुत्कला भद्र! भारती ॥ ३ ॥ ते धन्यास्ते महात्मानस्ते श्लाघ्यास्ते मनखिनः । ते वन्द्यास्ते दृढास्तत्त्वे, ते जगत्यमृतोपमाः ॥ ४ ॥ येषां मिताक्षरा सत्या, जगदाहादकारिणी । काले सद्बुद्धिपूता च, वर्तते भद्र ! भारती ॥ ५ ॥ युग्मम् । ॥४१४॥ ये तु मुत्कलवाणीका, तदन्तेऽर्दवितर्दकम् । तैरत्रैव महानर्था, नेदृशा वत्स! दुर्लभाः ॥ ६ ॥ सुश्लिष्टा मोचयत्येषा, भारती तात! देहि-है।
संप्राप्तोऽयं वरावणमपराधं से
SARKAARAARAK
नाम् ? ॥ २ ॥
JainEducation
For Private
Personel Use Only
Oljainelibrary.org