SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ उपमितौ च. ४-प्र. १४१३॥ मासखादनफलं वन्नुपलभ्यते ॥३७॥ त्रिभिर्विशेषकम् । विमर्शेनोक्तम्-अत्रैव मानवावासे, विद्यतेऽवान्तरं पुरम् । ललितं नाम तस्यायं, राजा ललननामकः ॥ ३८ ॥ मृगयाव्यसने सक्तो, न लक्ष्यति किञ्चन । अयमत्र महारण्ये, तिष्ठयेव दिवानिशम् ॥ ३९ ॥ सामन्तैः स्वजनैलोकैस्तथा मन्त्रिमहत्तमैः । वार्यमाणोऽपि नैवास्ते, मांसखादनलालसः ॥ ४०॥ सीदन्ति राज्यकार्याणि, विरक्तं राजमण्डलम् । ततस्तं तादृशं वीक्ष्य, चिन्तितं राज्यचिन्तकैः ।। ४१ ॥ नोचितो राज्यपद्माया, ललनोऽयं दुरात्मकः । ततः पुत्रं व्यवस्थाप्य, राज्ये गेहाद्वहिष्कृतः ॥ ४२ ॥ तथाप्याखेटके रक्तो, मांसलोलो नराधमः । एकाकी दुःखितोऽरण्ये, नित्यमास्ते पिशाचवत् ॥४३॥ इह च वत्स!-“परमा"रितजीवानां, पिशितं योऽपि खादति । इहामुत्र च दुःखाना, पद्धतेः सोऽपि भाजनम् ॥ ४४ ॥ यस्तु क्रूरो महापापः, स्वयमेव निकृ"न्सति । स्फुरन्तं जीवसवातं, तस्य मांसं च खादति ॥ ४५ ॥ तस्येह यदि दुःखानि, भवन्त्येवंविधानि भोः! । परत्र नरके पातो, "वत्स! किं तत्र कौतुकम् ॥४६॥ युग्मम् । बीभत्समशुचेः पिण्डो, निन्द्यं रोगनिबन्धनम् । कृमिजालोल्वणं मांसं, भक्षयन्तीह राक्षसाः ॥४७॥ यस्त्विदं धर्मबुद्ध्यैव, भक्ष्यते स्वर्गकाम्यया । कालकूटविषं नूनमास्ते जीवितार्थिनः ॥ ४८ ।। अहिंसा परमो धर्मः, स कुतो "मांसभक्षणे ?। अथ हिंसा भवेद्धर्मः, स्यादग्निहिमशीतलः ॥ ४९॥ किमत्र बहुना?-धर्मार्थ रसगृद्ध्या वा, मांसं खादन्ति ये नराः । "निघ्नन्ति प्राणिनो वा ते, पच्यन्ते नरकाग्निना ॥ ५० ॥ अन्यच्च-यथा गोमायुघाताय, ताम्यत्येष निरर्थकम् । आखेटके रतात्मानस्तथैवान्येऽपि जन्तवः ।। ५१ ॥ यावञ्च वर्णयत्येवं, विमर्शस्तस्य चेष्टितम् । तावल्ललनवृत्तान्तो, यो जातस्तं निबोधत ॥ ५२ ॥ स जम्बुकविनाशार्थ, धावन्नुच्चैर्दुरुत्तरे । सतुरङ्गो महागते, पतितोऽधोमुखस्तले ॥ ५३ ॥ ततः संचूर्णिताङ्गोऽसौ, क्षुद्यमानो येन च । अत्राणो | विरटन्नुच्चैस्तत्रैव निधनं गतः॥ ५४ ॥ ततः प्रकर्षणाभिहितम्-अधुनैवामुना प्राप्तं, मृगयाव्यसने फलम् । विमर्शः प्राह न फलं, ॥४१३॥ Jain Education For Private & Personel Use Only Kajainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy