________________
उपमितौ च. ४-प्र.
॥४१२॥
वत्स!, विख्यातातुलसंपदः । कुबेरसार्थवाहस्य, सूनुरेष कपोतकः॥१८॥ धनेश्वर इति ख्यातमभिधानं प्रतिष्ठितम् । अस्य पूर्वगुणैः पश्चादाहूतोऽयं कपोतकः ।। १९ ।। अनर्घ्यरत्नकोटीभिः, पूरितं पापकर्मणा । अनेनापि पितुर्गेहं, श्मशानसदृशं कृतम् ।। २० ।। द्यूतेषु रतचित्तोऽयं, न चेतयति किञ्चन । निर्वाहिते धने स्वीये, द्यूतार्थ चौरिकापरः ॥ २१ ॥ चौर्य पुरेऽत्र कुर्वाणो, भूरिवाराः कदार्थितः । राज्ञाऽसौ मान्यपुत्रत्वात्केवलं न विनाशितः ।। २२ ।। अद्य रात्रौ पुनः सर्व, हारितं कर्पटादिकम् । ततो व्यसनतप्तेन, मस्तकेन कृतः पणः ॥ २३ ॥ एभिरेष महाधूतैर्वराकैः कितवैर्जितः । शिरोऽपि लातुमिच्छद्भिरधुनैवं विनाट्यते ॥ २४ ॥ नंष्टुमेभ्यो न शक्नोति, स्वपापभरपूरितः । क्षुद्रर्वितर्ककल्लोलैः, केवलं परितप्यते ॥ २५ ॥ प्रकर्षः प्राह न ज्ञातं, किमनेन तपस्विना । द्यूतं हि देहिनां लोके,
थर्वानर्थविधायकम् ? ॥२६॥ धनक्षयकरं निन्छ, कुलशीलविदूषणम् । प्रसूतिः सर्वपापानां, लोके लाघवकारणम् ॥ २७ ॥ संक्लिष्टचे४ तसो मूलमविश्वासकरं परम् । पापैः प्रवर्तितं द्यूतं, किमनेन न लक्षितम् ? ॥ २८ ॥ विमर्शेनोदितं वत्स!, महामोहमहीपतेः । व& राकः किं करोत्येष, यो वशः सैन्यवर्तिनः ॥ २९ ॥ यतः-महामोहहता येऽत्र, विशेषेण नराधमाः। द्यूते त एव वर्तन्ते, प्राप्नुवन्ति
च तत्फलम् ॥ ३० ॥ यावच्च कथयत्येवं, विमर्शः किल चेष्टितम् । तावत्रोटितमेवोच्चैः, कितवैस्तस्य मस्तकम् ॥ ३१ ॥ प्रकर्षः प्राह ४मामेदं !, महानर्थविधायकम् । रमन्ते द्यूतमत्रैव, तेषामेवंविधा गतिः ॥ ३२ ॥ तं मातुलोऽब्रवीद्भद्र !, सम्यक् संलक्षितं त्वया । न छूते
रक्तचित्तानां, सुखमत्र परत्र वा ॥ ३३ ॥ अत्रान्तरे महारण्ये, निपपात कथञ्चन । दृष्टिः प्रकर्षसंज्ञस्य, नीलाब्जदललासिनी ॥३४॥
ततश्च तन्मुखं हस्तं, कृत्वा स प्राह मातुलम् । क एष तुरगारूढः, प्रखिन्नः श्रमपीडितः ॥ ३५ ॥ उद्गीर्णहेतिः पापात्मा, जीवमारणत४त्परः । स्वयं दुःखपरीतोऽपि, दुःखदोऽरण्यदेहिनाम् ॥ ३६॥ मध्याह्नेऽपि पिपासातों, बुभुक्षाक्षामकुक्षिकः । जम्बुकं पुरतः कृत्वा, प्रधा
शकः किं करोयेष, यो
यत्येवं, विमर्शः किल
मृगया
॥ ३२ ॥ तं मातुला
व्यसनफलं
॥४१२॥
25
Jain Education Intel 831
For Private & Personel Use Only
M
ainelibrary.org