________________
उपमितौ च. ४-प्र.
NOSSOS
॥४११॥
| "गृध्यन्ति, ते श्वानो न मनुष्यकाः ॥११॥" तस्मादेवंविधं नूनमन्येषामपि देहिनाम् । चरितं यैः कृतं पापैर्गणिकाव्यसने मनः ॥१२॥ प्रकर्षेणोक्तं-सत्यमेतन्नास्त्यत्र सन्देहः, ततोऽतिवाहितस्ताभ्यां कचिद्देवमन्दिरे रात्रिशेषः-अत्रान्तरे गलत्तारा, कथितध्वान्तकेशिका । नभःश्रीः पाण्डुरा जाता, रोगाघ्रातेव बालिका ॥ १ ॥ आददानः श्रियं तस्या, निजवीर्येण भास्करः । कारुण्यादिव संजातः, सप्रभावो भिषग्वरः ।। २॥ ततोऽरुणप्रभाभिन्ने, पूर्वे गगनमण्डले । जाते रक्तेऽभ्रसङ्घाते, गतच्छाये निशाकरे ॥ ३ ॥ तस्करेषु निलीनेषु, लपत्सु कृकवाकुषु । कौशिकेषु च मूकेषु, कुररेषु विराविषु ॥ ४ ॥ स्वकर्मधर्मव्यापारच्छलेनेव कृतादरम् । सर्व तदा जगज्जातमारोग्यार्थ नभःश्रियः ॥५॥ त्रिभिर्विशेषकम् । अथोदिते सहस्रांशी, प्रबुद्धे कमलाकरे । सङ्गमे चक्रवाकानां, जने धर्मपरायणे ॥ ६॥ विमर्शः प्राह ते वत्स!, महदत्र कुतूहलम् । भवचक्रं च विस्तीर्ण, नानावृत्तान्तसङ्कुलम् ॥ ७॥ स्तोककालावधिः शेषो, द्रष्टव्यं बहु तिष्ठति । न शक्यते ततः कर्तुमेकैकस्थानवीक्षणम् ॥ ८॥ तदिदं वचनं तात!, मामकीनं समाचर । आकालहीनं ते येन, पूर्यते तत्कुतूहलम् ॥९॥ य एष दृश्यते तुङ्गः, शुभ्रः स्फटिकनिर्मलः । महाप्रसादो विस्तीर्णो, विवेको नाम पर्वतः ॥ १०॥ आरूढैदृश्यते भद्र !, समस्तमिह पर्वते । इदं विचित्रवृत्तान्तं, भवचक्रं महापुरम् ॥ ११॥ तदत्रारुह्यतां तात!, निपुणं च विलोक्यताम् । यच्च न जायते सम्यक्, पृ-15 च्छयतामेष तज्जनः ॥ १२ ॥ यतोऽत्राखिलवृत्तान्ते, विदिते नगरे तव । पश्चादपि न जायेत, चित्तौत्सुक्यं कदाचन ॥ १३ ॥ एवं है भवतु तेनोक्ते, समारूढौ च पर्वते । अथ तत्र विवेकाख्ये, तुष्टौ स्वस्रीयमातुलौ ॥ १४ ॥ प्रकर्षः प्राह मामैष, रमणीयो महागिरिः। दृश्यते सर्वतः सर्व, भवचक्रं मयाऽधुना ॥ १५ ॥ किं तु देवकुले माम!, नग्नो ध्यानपरायणः । वेष्टितः पुरुषैर्दीनः, क्षामो मुत्कलकेशिकः ॥ १६ ॥ नंष्टुकामो दिगालोकी, सेटिकाशुभ्रहस्तकः । दृश्यते पुरुषः कोऽयं, पिशाचाकारधारकः? ॥ १७ ॥ विमर्शेनोदितं
Steel
विवेक
पर्वतः
द्यूतफलं
॥४११॥
Jain Education in
For Private Personel Use Only
Mainelibrary.org