Book Title: Upmitibhava Prapancha Katha Purvarddha
Author(s): Siddharshi Gani, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 399
________________ IF उपमितौ च. ४-अ. मकरध्वजस्याभिषेका ततोऽमीषां जनानां शरीरेष्वनुप्रविष्टा निजविजयहृष्टास्ते भद्र! प्रेक्षणकमिदं प्रेक्षन्ते, प्रकर्षः प्राह-मामकतर्हि कथं तानेवंस्थितानपि भवान् साक्षात्कुरुते ?, विमर्शेनोक्तं-अस्ति मे योगानं विमलालोकं नाम, तद्बलेनेति, प्रकर्षणोक्तं ममापि क्रियतां तस्या जनस्य | दानेनानुग्रहो येनाहमपि तानवलोकयामि, ततो विमर्सेनाखितं प्रकर्षस्य तेन योगाजनेन लोचनयुगलं, अभिहितश्च वत्स! निरूपये*दानी निजहृदयानि, निरूपितानि प्रकर्षेण, ततः सहर्षेणाभिहितमनेन-माम! दृश्यते मयाप्यधुना कृतराज्याभिषेको महामोहादिपरिक रितो मकरध्वजः, तथाहि-एष सिंहासनस्थोऽपि, जनमेनं धनुर्धरः । आकृष्याकृष्य निर्भिन्ते, आकर्णान्तं शिलीमुखैः ॥ १॥ तैर्विद्धं विह्वलं दृष्ट्वा, ततो लोकं सराजकम् । प्रहारजर्जरं चेत्थं, विकारकरणाकुलम् ॥ २ ॥ महाकहकध्वानैः, सह रत्या प्रमोदितः । हस्ते तालान्विधायोचैईसत्येष नराधिपः ॥ ३॥ सुहृतं सुहृतं देव!, वदन्त इति किङ्कराः । महामोहादयोऽप्यस्य, हसन्तीमे पुरः स्थिताः ॥४॥ तत्किमत्र बहुना जल्पितेन ? महाप्रसादो मे माम!, कृत एवातुलस्त्वया । यद्राज्यलीला भुजानो, दर्शितो मकरध्वजः ॥ ५॥ विमशेनोक्तं-वत्स! कियदद्यापीदं ?, बहुतरमत्र भवचक्रनगरे भवताऽन्यदपि द्रष्टव्यं, संभवन्त्यत्र भूरिप्रकाराणि प्रेक्षणकानि, प्रकर्षः प्राह -माम! त्वयि सप्रसादे दर्शके किं वा मम दर्शनकुतूहलं न परिपूर्येत?, केवलं मकरध्वजस्य समीपे महामोहरागकेसरिविषयाभिलाषहासादयः सपत्नीकाः समुपलभ्यन्ते अधुना मया ते तु द्वेषगजेन्द्रारतिशोकादयो नोपलभ्यन्ते तत् किमत्र कारणं ?, किं नागतास्तेऽत्र मकरध्वजराज्ये ?, विमर्शेनोक्तं वत्स! समागता एव तेऽत्र भवचक्रनगरे, न सन्देहो विधेयः, किं तु निवेदितमेव मया यथाऽऽविर्भाव| तिरोभावधर्मकाः खल्वेतेऽन्तरङ्गलोकाः, ततस्ते द्वेषगजेन्द्रशोकादयोऽत्रैव तिरोभूतास्तिष्ठन्ति, राज्ञः सेवावसरमपेक्षन्ते, एते तु महामोहादयो लब्धावसरतया राज्ञः सभायामाविर्भूताः स्वनियोगमनुशीलयन्ति, किं तु प्रचण्डशासनः स्वल्वेष मकरध्वजनरेन्द्रः ततोऽस्य ॥३९५॥ Jain Education a l For Private 3 Personal Use Only

Loading...

Page Navigation
1 ... 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474